SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १३२ काव्यमाला। मन्तव्यम् । केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरणमप्यूह्यम् । यथा 'परहिअ मग्गन्ती इआरिअं अत्तणोतए हिअअम् । अव्योल्लाहस्स कए मूलाओं विछेइआ जाआ ॥' इति तत्रोदाहार्यम् । तद्विपर्ययः समम् । विषमवैधादिह प्रस्तावः । यद्यपि विषमस्य भेदत्रयमुक्तं तथापि च्छब्देन संभवादन्त्यो भेदः परामृष्यते । पूर्वभेदद्वयविपर्ययस्यानलंकारत्वात् । अन्त्यभेदविपर्ययस्तु चारुत्वात्समाख्योऽलंकारः । स चाभिरूपानभिरूपविषयत्वेन द्विविधः । आद्यो यथा 'त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमान्तं परमिह युवामेव भजथः । अयि द्वन्द्वं दिष्टया तदिह सुभगे संवदति वा... मतः शेषं यत्स्याज्जितमिह तदानीं गुणितया ॥' अत्राभिरूपस्यैव नायकयुगलस्योचितं संघटनमाशंसितम् । द्वितीयो यथा 'चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विधाता । अत्राननुरूपयोस्तन्वीमदनानलयोः संघटनम् । अत्रेति तीर्थान्तरेष्वित्यादौ । शुद्धति । यत्र विषममेव न. स्यात् । तत्तु यथा-'यो हठं प्रतिनिषेद्धमुदस्तः सुभ्रुवा प्रियतमस्य कटाक्षः । स प्रतोद इव तस्य विशेषात्प्रेरकः किमपि हन्त बभूव ॥' अत्र कटाक्षस्य हठनिषेधायोदस्तस्य न केवलं तदसिद्धिर्यावत्तस्यैवात्यन्तं स प्रेरको जात इत्यनर्थोत्पत्तिः । तद्विपर्ययेत्यादि । संभवादित्यलंकारत्वस्य । अनलंकारत्वादिति । कारणात्कार्योत्पत्तेर्वस्तुसाधनोद्यतस्य तत्सिद्धेश्च वास्तवत्वात् । यद्येवं तत्सरूपसंघटनापि वस्तुत एव युक्तेति तस्या अपि कथमलंकारत्वमित्याशङ्कयाह-अन्त्येत्यादि । चारुत्वादित्यलंकारत्वपर्यवसायिनः । अभिमानरूपेति । शोभनाशोभनविषयत्वेनेत्यर्थः । आद्य इत्यभिरू १. 'अभ्यूह्यम्' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy