SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । १३१ प्तिरपीति द्वितीयं विषमम् । अत्यन्ताननुरूपसंघटनयोर्विरूपयोश्च संघटनं तत्तृतीयं विषमम् । अननुरूपसंसर्गो हि विषमम् । क्रमेण यथा 'सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ॥' 'तीर्थान्तरेषु मलपङ्कवतीविहाय दिव्यास्तनूस्तनुभृतः सहसा लभन्ते । वाराणसि त्वयि तु मुक्तकलेवराणां ___ लाभोऽस्तु मूलमपि यात्यपुनर्भवाय ॥' 'अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः क्व मुक्ताहारोऽयं क च स पतगः क्वेयमबाला । क तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता निभृतनिभृतं कन्दलयति ॥' अत्र कृष्णवर्णाच्छुक्लवर्णोत्पत्तिः कलेवरात्यन्तापहारलक्षणानन्तरोत्पत्तिरिति, अत्यन्ताननुरूपाणां चारण्यादीनां परस्परं संघटनं क्रमेण न केवलं तयोः स्वयं विरूपत्वं यावत्तत्संघटनाया अप्यननुरूपत्वमित्यत्र तात्पर्यम् । एकमित्याद्यभिदधता ग्रन्थकृता विषमाणां भिन्नत्वमुक्तम् न प्रकारप्रकारित्वम् । सामान्यलक्षणस्यासंभवात् । एवमेव पुनरेषां कस्मादभिधानमित्याशङ्कयाह-अननुरूपेत्यादि। यत्किचित्पुनरस्मदर्शनविरुद्धमन्यैरधिकमुक्तं तदिहास्माभिर्यथावस्तुग्रन्थार्थमात्रव्याख्याननिर्वाहसमुत्सुकमानसत्वान्न निराकृतमिति न तदेव सिद्धान्तीकार्यम् । तस्य पृथडिरसि. ध्यमाणत्वात् । इह हि यथाशक्त्यस्माकमाग्रहप्रवृत्तपरकीयदूषणोद्धारमात्रमेव विवक्षितम् । यथोपयोगं पुनस्तनिराकरणमपिकृतं करिष्यते च । अत्र शुक्लकृष्णवर्णत्वं कार्यकारणात्मकविषयद्वयगतत्वेन स्थितमित्यस्य भिन्नविषयत्वादेकविषयाद्विरोधाद्भेदो ज्ञेयः । एवमन्यत्रापि ज्ञेयम् । अरण्यान्यादीनामननुरूपमन्योन्यघटनं वास्तवमित्युदाहरणान्तरेणोदाहियते। यथा'शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना । अयं क च कुकूलामिकर्कशो मदनानलः ॥' १. 'अत्यर्थ क. २. 'संघटनात्' ख. ३. अननुरूपेत्यादि ख-पुस्तके नास्ति. ४. 'पल्लवयति' ख. ५, 'घटन' ख. १. 'रूपत्वात्' ख. २. 'विषयानां' ख. ३. 'घटना' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy