Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वखम् । यथापूर्व परस्य विशेषणतया स्थापनापोहने एकावली ।
यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एकावल्यलंकारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा। स्थापनेन यथा'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः ।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य ॥' अत्र वराङ्गनाः पुराणां विशेषणं स्थानीयत्वेन स्थितम् । एवं वराङ्गनानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा
'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं यन्न निलीनषट्पदम् ।
न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः॥' अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निषेध्यत्वेन स्थितम् । एवं पङ्कजानां निलीनषट्पदत्वं ज्ञेयम् ।
पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् ।
उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावली । पूर्वस्य पूर्वस्योत्तरो. त्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम् । मालात्वेन चारुत्वविशेषमाश्रित्य हेतुः । विशेषणविशेष्यभावादेवावान्तरस्य विच्छित्तिविशेषस्य संभवात् । क्वचिद्विपर्ययेणापि भवति। यथा-'माणो गणेहि जाअइ गुणा वि जाअन्त सुअणसेवाइ । विमलेण सुअअप्पसरेण सुअणवइ उटाणम् ॥' अत्र हि पूर्वस्योत्तरोत्तरं कारणतयोपनिबद्धम् । एवमुत्तरत्रापि विपर्ययोऽभ्यूह्यः ॥ यथापूर्वमित्यादि । परं परमिति । अत एव पूर्वस्य पूर्वस्य यथायथं विशिष्टतयावगमः । स्वरूपमात्रेणावगतस्य वस्तुनो यत्संबन्धबलेन वैशिष्टयमवगम्यते तद्विशेषणम् ।यद्वक्ष्यति । उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावलीति। एकावल्यलंकार इति । पूर्वोत्तरयोः परस्परानुषक्तत्वेनैकपतिरूपत्वात् । पूर्वेत्यादि । अतश्चैकावल्यलंकाराद्वैलक्षण्यं दर्शयन्व्याचष्टे-उत्तरेत्यादि । उत्कर्षनिबन्धनत्व इत्यनेन कारणमालातोऽप्यस्य वैलक्षण्यमुक्तम् । तस्यां हि पूर्वस्य पूर्वस्योत्तरमुत्तरं प्रति कारणत्वम् । ननु चास्य प्राच्यैीपकानन्तरं लक्षणं कृतमिह तु किं न तथेत्याशङ्कयाह-मालात्वेनेत्यादि । मालाशब्देनात्र शृङ्खला लक्ष्यते । तस्या एवोपक्रान्तत्वात् । न चात्र मालोप
१. 'परस्परविशेषणतया' ख. २. 'द्विधा भवति' ख. ३. 'वराङ्गनारूपमित्यादि' ख. १. 'मानो गुणेन जायते गुणा अपि जायन्ते सुजनसेवायाः' इति पूर्वार्धस्य च्छाया. २. उत्तरार्ध क-पुस्तके नास्ति.

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218