SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वखम् । यथापूर्व परस्य विशेषणतया स्थापनापोहने एकावली । यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एकावल्यलंकारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा। स्थापनेन यथा'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य ॥' अत्र वराङ्गनाः पुराणां विशेषणं स्थानीयत्वेन स्थितम् । एवं वराङ्गनानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा 'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं यन्न निलीनषट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः॥' अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निषेध्यत्वेन स्थितम् । एवं पङ्कजानां निलीनषट्पदत्वं ज्ञेयम् । पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् । उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावली । पूर्वस्य पूर्वस्योत्तरो. त्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम् । मालात्वेन चारुत्वविशेषमाश्रित्य हेतुः । विशेषणविशेष्यभावादेवावान्तरस्य विच्छित्तिविशेषस्य संभवात् । क्वचिद्विपर्ययेणापि भवति। यथा-'माणो गणेहि जाअइ गुणा वि जाअन्त सुअणसेवाइ । विमलेण सुअअप्पसरेण सुअणवइ उटाणम् ॥' अत्र हि पूर्वस्योत्तरोत्तरं कारणतयोपनिबद्धम् । एवमुत्तरत्रापि विपर्ययोऽभ्यूह्यः ॥ यथापूर्वमित्यादि । परं परमिति । अत एव पूर्वस्य पूर्वस्य यथायथं विशिष्टतयावगमः । स्वरूपमात्रेणावगतस्य वस्तुनो यत्संबन्धबलेन वैशिष्टयमवगम्यते तद्विशेषणम् ।यद्वक्ष्यति । उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावलीति। एकावल्यलंकार इति । पूर्वोत्तरयोः परस्परानुषक्तत्वेनैकपतिरूपत्वात् । पूर्वेत्यादि । अतश्चैकावल्यलंकाराद्वैलक्षण्यं दर्शयन्व्याचष्टे-उत्तरेत्यादि । उत्कर्षनिबन्धनत्व इत्यनेन कारणमालातोऽप्यस्य वैलक्षण्यमुक्तम् । तस्यां हि पूर्वस्य पूर्वस्योत्तरमुत्तरं प्रति कारणत्वम् । ननु चास्य प्राच्यैीपकानन्तरं लक्षणं कृतमिह तु किं न तथेत्याशङ्कयाह-मालात्वेनेत्यादि । मालाशब्देनात्र शृङ्खला लक्ष्यते । तस्या एवोपक्रान्तत्वात् । न चात्र मालोप १. 'परस्परविशेषणतया' ख. २. 'द्विधा भवति' ख. ३. 'वराङ्गनारूपमित्यादि' ख. १. 'मानो गुणेन जायते गुणा अपि जायन्ते सुजनसेवायाः' इति पूर्वार्धस्य च्छाया. २. उत्तरार्ध क-पुस्तके नास्ति.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy