________________
काव्यमाला।
एवं विरोधमूलानलंकारान्निर्णीय शृङ्खलाबन्धोपचिता अलंकारा लक्ष्यन्ते । तत्र
पूर्वस्य पूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला।
यदा पूर्व पूर्व क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमालाख्योऽयमलंकारः । यथा
'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' कार्यकारणक्रम एवात्र चारुत्वहेतुः । तोदाहरणत्वमस्य निरस्तम् । तत्र हि द्वयोरपि कार्ययोनिष्पत्तिर्विवक्षिता । बाल्यस्य तु कार्यद्वयंजननेऽपि सामर्थ्य किं तु प्रेस्थापनजनने सौकर्यम् । अत एवात्र संभाव्यमानस्य कार्यस्य व्याहतत्वम् । यथा वा-'यत्सशब्दमिति कामविमर्दे नूपुरं परिहरन्ति तरुण्यः । तद्वभार कतरापि विदग्धा गोपनाय निजकण्ठरुतानाम् ॥' अत्र संभाव्यमानं कार्य परिहारः । तस्य व्याहतिधारणम् । उपायस्य सुकरदुष्करत्वेन विशिष्टत्वादत्र न प्रथमव्याघातोदाहरणत्वम् । यथा च नायमर्थो वक्रोक्तभेदस्तथा वक्रोक्तावेव वक्ष्यामः । एपदुपसंहर. नन्यदवतारयति--एवमित्यादिना। अलंकार इति न पुनः शृङ्खलैवैकोऽलंकारः । एवं हि साधर्म्यमप्येक एवालंकारः स्यात् । न ह्यपमादिषु साधर्म्यपरिहारेण प्रत्येकं कश्चिद्विच्छित्तिविशेषसंभवः येनालंकारभेदः स्यात् । एवं विरोधोऽप्येक एव वाच्यः । न हि विभावादीनां विरुद्धत्वादन्यः कश्चिद्विशेषः किमपरम् । एवं सप्ताष्टानामेवालंकाराणां लक्षणप्रणयनप्रसङ्गः । अथोपमादीनामपि साधादावान्तरोऽस्ति विशेष इति चेत् । तर्हि कारणमालादीनामपि शृङ्खलाबन्धोपचित्रितत्वेऽपि वक्ष्यमाणनीत्या कार्यकारणविशेषणविशेध्यभावाद्यात्मास्त्येवावान्तरोऽपि विच्छित्तिविशेषः येनोपमादिवत्पृथगेवैषामलंकारत्वं युक्तम् । एवं हि शृङ्खलायामवान्तरविच्छित्तिविशेषसंभवेऽप्यन्यालंकारोपसंख्यानं प्रसज्यत इति चेत्, न । यद्यस्ति विच्छित्यन्तरं तदस्त्वलंकारान्तरोपसंख्यानं को दोषः । प्रत्युताभासमानस्य विशेषस्यापनवो न वाच्यः । तद्यथास्थित एवालंकारभेद आश्रयणीयः । तस्मादुत्तरोत्तरस्य पूर्वपूर्वानुबन्धित्वे विपर्यये वा शृङ्खलेति न वाच्यम् । तत्र तावत्कारणमालामाह-पूर्वेत्यादि । कारणमालाख्योऽयमिति मालान्यायेन बहुनां कारणमालानां योगपद्येनावस्थानात् । अत एवाह-कार्यकारणक्रम एवेति । न पुन: केवलमेव शृङ्खलात्वमित्यर्थः । अत एव कारणमालेत्यस्या अन्वर्थमभिधानम् । एवमन्येभ्यः शृङ्खलाबन्धोपचित्रितेभ्योऽलंकारेभ्योऽस्या विषयविभागः । न हि तेषु कार्यकारणक्रम एव चारुत्व
१. 'अत्र' क. २. 'प्रस्थान' ख. ३. 'साधर्म्यऽप्येक' ख. ४. 'अप्यन्तरोऽस्ति' ख. ५. 'पूर्वानुबन्धित्वम्' ख. ६. 'विपर्ययो वा' ख.