SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । १३९ प्रकारान्तरेणाप्ययं भवतीत्याह सौकर्येण कार्यविरुद्धक्रिया च व्याघात इत्येव । किंचित्कार्य निष्पादयितुं संभाव्यमानः कारणविशेषस्तत्कार्यविरुद्धनिप्पादकत्वेन यत्समर्थ्यते सोऽपि संभाव्यमानकार्यव्याहतिनिबन्धनत्वाव्याघातः । कार्यविरुद्धनिष्पत्तिश्च कार्यापेक्षया सुकरा । तेस्य कारणस्यात्यन्तं तदानुगुण्यात् । नत्वत्र कार्याभिमतस्य कार्यत्वाभावः । तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात् । अत एव द्वितीयाद्विषमाद्भेदः । तत्र हि कार्यस्यानुत्पत्तिरनर्थस्य चोद्गमनम् । इह तु कार्यमकार्यमेव न भवति । तद्विरुद्धस्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्ठुकार्यत्वात् । यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु___ 'यदि बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भवद्भुजपञ्जरमेव रक्षास्थानम्' इत्यादि । __ अत्र राज्यवर्धनेन श्रीहर्षाप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कारणत्वेन यत्संभावितं तत्प्रत्युत प्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्यवर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः। । वैलक्षण्यमवश्याभ्युपगन्तव्यम् । अतश्चास्य सर्वात्मना व्यतिरेको निमित्तत्वं यायात् । पूर्ववदित्यानुरूप्यपरिहारात् । स चैकस्योपायस्य साधनान्यथाकरणत्वेन विवक्षणात् । प्रकारान्तरेणेति प्रतीतिभेदात् । अयमिति व्याघातः । तमेवाह-सौकर्येणेत्यादि । एतदेव व्याचष्टे—किंचिदित्यादिना । संभाव्यमान इति केनचिदन्येन । तत्कार्येति । तच्च तत्कार्य निष्पादयितुं प्रक्रान्तम् । अत एवास्य प्रथमायाघाताद्भेदः । तत्र हि येनकेनचिदुपायेन निष्पादितं सद्वस्तु तथैवान्येनान्यथीक्रियत इत्युक्तम् । इह तु किंचिनिष्पादयितुं संभाव्यमानस्य कारणस्य तद्विरुद्ध निष्पादकत्वेन समर्थनम् । तद्विरुद्धनिष्पत्तेश्च सौकर्य किमुक्तमित्याशङ्कयाह-कार्यत्यादि । तदानुगुण्यादिति कार्यविरुद्धानुगुणत्वात् । न त्विति ।अपि तु दुष्करत्वेन कार्यत्वमित्यर्थः । अनेनाप्यस्य प्रथमाझ्याघाताद्भेदः सूचितः । इह हि किंचिनिष्पादयितुं संभाव्यमानः कारणविशेषः सौकर्येण तद्विरुद्धनिष्पादकत्वेन समर्थ्यते । तत्र रूपाय विशेषविवक्षापरिहारेण केर्तुरेव पक्षप्रतिपक्षभावमाश्रित्य तथात्वोपनिबन्धः । अत एवेति । द्वयोरपि कार्यत्वसंभवात् । अनर्थेत्यनेनापि विषमादस्य भेद एवोपोद्वलितः । संभावितमिति । (तथा ।) सथितमिति । अनेन प्रथमव्याघा १. 'परिनिष्पादकत्वेन' ख. २. 'तस्याकारणस्य' ख. ३. 'कार्य कार्यमेव' ख. ४. 'व्यादिष्टोऽलंकारः' क. १. तेनाप्यस्य' क. २. 'कोरेव' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy