________________
काव्यमाला |
दीपकप्रस्तावोल्लङ्घनेनेह लक्षणं कृतम् । गुणावहत्वमुत्कर्षहेतुत्वम् ।
१४२
यथा-
'संग्रामाङ्गनसंगतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥' अत्र कोदण्डादिभिः क्रमेण शरीरादीनामुत्कर्षो विहितः । समासादनलक्षणक्रियानिबन्धनं च दीपकं दीपनक्रियाणामुत्तरोत्तरोम्भितत्वेन कृतम् ।
उत्तरोत्तरमुत्कर्षणमुदारः ।
पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षनिर्बंन्धनत्वमुदाराख्योऽलंकारः । यथा'जये धरित्र्याः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः । तत्रापि शय्या शयने वरस्त्री रत्नोज्ज्वला राज्यसुखस्य सारम् ॥'
मावन्मालाशब्दो ज्ञेयः । एकस्योपमेयस्य बहूपमानोपादानाभावात् । अत्र यैौपम्यमेव नास्ति । कोदण्डशरादीनां तस्याविवक्षणात् । अत एवास्य दीपकभेदत्वं न वाच्यम् । औपम्यजीवितं हि तत् । प्राच्यैः पुनरेतद्दीपनमात्रानुगुण्यात्तदनन्तरं लक्षितम् । शृङ्खलात्वेन तु विशिष्टस्य चारुत्वमितीह लक्षणं युक्तम् । एतच्च दीपक एव ग्रन्थकृतोक्तम् । छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यत इति । अत्रेत्यादि । उत्कर्षश्च शरादीनां कोदण्डादिसमासादनलक्षणः । दीपनविषयाणामिति । कोदण्डशरादीनाम् । अत एवास्य दीपकमित्यन्वर्थमभिधानम् ॥ उत्तरेत्यादि । एतदेव व्याचष्टे - पूर्वे - त्यादि । एतच्चैकस्यैव वस्तुनो बहुनां वा स्यादित्यस्य द्वैधम् । तेन पूर्वत्र पूर्वपूर्वेत्युत्तरस्येति चावस्थाविशेषाभिप्रायेण व्याख्येयम् । अन्यथा ह्येकस्यैव पूर्वत्वमुत्तरत्वं च कथं स्यात् । एवमप्युत्तरोत्तरमुपचयः स्वरूपेण धर्मेण वा भवतीत्यस्य चातुर्विध्यम् । एवं प्र कृते यथायथमारोहक्रमेण धाराधिरूढतयोत्कर्षप्रतिपादनं स्यादित्यलंकारबीजम् । यदुक्तम् । उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिरिति । पूर्वापेक्षयोत्तरस्योत्कृष्टत्वमित्यनेन मालादीपकादस्य भेदोऽप्युक्तः । तत्र हि पूर्वस्योत्तरं प्रत्युत्कर्षनिबन्धनत्वमुक्तम् । अत एव चास्योत्तरोत्तरस्योत्कर्षोपनिबद्धादन्वर्थत्वम् । तत्रैकस्य स्वरूपेणोत्कर्षो यथा - ' किं छत्रं
१. 'हेतुकं' क. २. 'दीपनविषयाणाम्' ख ३. 'उत्तरोत्तरमुत्कर्षः सारः ' ख. ४. 'निबन्धनं सारः' ख.
१. 'प्रस्तावान्तरेन' क. २. 'चार्ववस्था' क.