________________
अलंकारसर्वस्वम् ।
१४३ अत्र धरित्र्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृहस्येत्यादि योजनीयम् । यथा
'राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ अत्र राज्यापेक्षया वसुंधरायाः सारत्वमेवं वसुधापेक्षया तदेकदेशस्य पुरस्येत्यादि योजनीयम् ।
एवं शृङ्खलाविच्छित्त्यालंकाराः प्रतिपादिताः । अधुना तकन्यायाश्रयेणालंकारद्वयमुच्यते । तंत्र
हेतोर्वाक्यपदार्थता काव्यलिङ्गम् । किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्वलिद्वेषिदेहे । उर्वे मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोऽबिम्बं स च दनुजरिपुर्वर्धमाणः क्रमेण ॥' अत्रैकस्यैव हरेस्तत्तदवयवस्थाविशिष्टतया स्वरूपेणोत्तरोत्तरमुत्कर्षः । धर्मेणापि यथा-'अतसीकुसुमप्रभं मुखे तदनु त्वत्कचमेचकद्युति । अथ बालतमालमांसलं प्रमृतं संप्रति सर्वतस्तमः ॥' अत्रैकस्यैव तमसो निबिडत्वाख्यधर्ममुखेनोत्तरोत्तरमुत्कर्षः । अत्र च यद्यप्येकस्मिन्नेव तमस्यनेकस्यातसीकुसुमप्रभादिकस्यावस्थानात्पर्यायत्वम्, तथापि तमसो नैबिड्यं यथायथमुत्कृष्टतया वाक्यार्थीभूतमिति यथोक्तमेव युक्तम् । बहूनां स्वरूपेणोत्कर्षों यथा-'अत्युच्चास्तरवः स्फुरन्ति गिरयः स्वर्वासिशैलस्ततस्तस्माद्विष्णुपदं ततः किमपरं स्यादन्यदत्युनतम् । तस्मात्सर्वत एव साधुहृदयान्युत्तुङ्गभङ्गीनि तत्कस्या उन्नतये तवार्थिपदवी चिन्तामणे तन्वते ॥' अत्रानेकेषां पूर्वापेक्षया स्वरूपेणोत्तरोत्तरमुत्कर्षः । धर्मेण यथा-'कुक्षेः कोटर एव कैटभरिपुर्धत्ते त्रिलोकीमिमामप्युद्वयूढभरो बिभर्ति तमपि प्रीतो भुजंगेश्वरः । श्रीकण्ठस्य स कण्ठसूत्रमभवद्देव त्वया तं हृदा बिभ्राणेन परेषु पौरुषकथा श्रीकर्ण निर्नाशिता ॥' अत्र कैटभारिप्रभृतीनां पौरुषाख्यधर्ममुखेनोत्तरोत्तरमुत्कर्षः । एवं 'जये धरित्र्याः' इत्यादौ सारत्वमुखेन बोद्धव्यम् । यदाहात्रेत्यादि । यथा वा-'त्रिलोक्यां रत्नसूः श्लाघ्या तस्यां धनपतेर्हरित् । तत्र गौरीगुरुः शैलो यत्तस्मिन्नपि मण्डलम् ॥' अत्र बहूनां श्लाध्यत्वेनोत्तरोत्तरमुत्कर्षः । यत्त्वन्यैरेतत्स्थाने रूपधर्माभ्यामाधिक्यमुक्तम् । तत्तेषां नाममात्रनवीकरणरसिकत्वम् । अ. स्यैव पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कर्षोपनिबन्धनात्मकत्वात्समाविषयावगाहनसहिष्णुत्वात् । तस्मादस्मिश्च वर्धमाने सारोपान्तर्भावमेति । न पुनरिदमन्तर्भूतं सारे परिमितविषये महाविषयमित्यायुक्तमेवोक्तम् । एतदुपसंहृत्यान्यदवतारयति-एवमित्यादिना । तति द्वयं निर्धारणे । हेतोरित्यादि । यत्रेति । हेतोश्च वाक्यार्थपदार्थगत्योपनिबन्धाद
१. 'प्रदर्शिताः' क. २. 'तत्कान्यायाश्रयेणा' ख. ३. 'तत्र' इति क-पुस्तके नास्ति. १. एतत्पर्यन्तं ख-पुस्तके नास्ति. २. 'यत्रेति' इति ख-पुस्तके नास्ति.