SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४४ काव्यमाला। . यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या लिङ्गत्वेन निबध्यते तत्काव्यलिङ्गम् । तर्कवैलक्षण्याथ काव्यग्रहणम् । न ह्यत्र व्याप्तिपक्षधर्मतोपसंहारादयः क्रियन्ते । वाक्यार्थगत्या च निबद्धोपनिबद्धस्य हेतुत्वम् । अन्यथार्थान्तरन्यासान्नास्यभेदः स्यात् । क्रमेण यथा 'यत्त्वन्नेत्रसमानकान्ति सलिले मन्नं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ स्यानेन सह भेदद्वयमप्युक्तम् । वाक्यार्थगत्येति । न तु पदार्थगत्या । तत्र [पनिबद्धस्यैव हेतुत्वात् । हेतुत्वेनैवेति । हेतुत्वस्यामुख एवोदिक्तत्वेन प्रतीतः । अन्यथेति । हेतुत्वेनोपनिबन्धो यदि न स्यात् । ननु हेतोर्वाक्यपदार्थोभयोपनिबन्धे न कश्चिद्विच्छित्तिविशेषः प्रतीयत इति कथमस्यालंकारत्वमुक्तम् । न हि साध्यसाधनायोपात्तस्य हेतोरेवं प्रकारद्वयातिरेकेणोपनिबन्धः स्यात् । न च यथासंभविनोपनिबन्धमात्रेणालंकारत्वं वक्तुं युक्तम् । कविप्रतिभात्मकस्य विच्छित्तिविशेषात्मकस्यालंकारत्वेनोक्तत्वात् । न चैवमुपनिबन्धात्कश्चिदतिशय इति कथमस्यालंकारत्वत् । एवं हि दृक्त्वाभासैव नान्येन वेद्येत्यादावपि स्वाभासत्वस्य हेतोविशेषणद्वारेण पदार्थगत्या, तथा 'प्रत्यक्षाद्विरलकराङ्गुलिप्रतीतिर्व्यापित्वादकुशलमिन्द्रियं न तस्याम्' इत्यादौ तमसि विरलाङ्गुलिप्रतीतौ व्यापित्वादिन्द्रियकौशलमेव साधनमिति हेतोर्वाक्यार्थगत्योपनिबन्धादलंकारत्वं स्यात् । स. त्यम् । यद्यप्येवमुपनिबन्धस्य वस्तुवृत्तेरसंभवान्न कश्चिदतिशयः प्रतीयते । तथापि ग्रन्थकृता प्राच्यैर्लक्षितत्वादेतदिह लक्षितम् । अथ यत्र व्यङ्गयाश्लिष्टो वाच्यार्थो वाच्यमेवार्थे प्रति हेतुतां भजते तत्रायमलंकारो युज्यत एवेति चेत् । तर्हि व्यङ्गयाश्लेषवशेन तदुत्थानाद्वाक्यार्थपदार्थतयोपनिबध्यमानस्य हेतोः स्वात्मनि न कश्चिदतिशय इति व्यङ्गयकृत एवातिशयोऽभ्युपगम्यते । न तत्कृतः । तस्यैवमुपनिबद्धस्य वास्तव्यत्वात् । यदि च व्यङ्गयसाहचर्येणैव हेतुरलंकारतामियात् तच्छब्दस्यापि हेतोरलंकारत्वं प्रसज्यते । यदि तत्रापि व्यङ्गयाश्लेषः स्यात् । अथ तस्य शाब्दत्वादेव वैचित्र्याभावादयमनलंकारत्वे निमित्तत्वं कथं न यायात् । अथ तत्र व्यङ्गयाश्लेषो न भवतीति चेत्, किं नामापराद्धम् । येनात्र व्यङ्गयाश्लेषस्तत्र च नेति । तथात्वेन लक्ष्यादर्शनादिति चेत्, नैतत् । अवाग्दर्शिन एवं निश्चयानुपपत्तेः । प्रत्युत यत्र भवता व्यङ्गयाश्लेष उक्तस्तत्र स नास्तीति वक्तुं श१. उपसंहारादयः क्रियावाक्यार्थगत्या' ख. १. 'हेतुत्वम्' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy