________________
अलंकारसर्वस्वम् । 'मृग्यश्च दर्भाङ्करनिर्व्यपेक्षास्तावागतिज्ञं समबोधयन्माम् । ___ व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥'
पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपः । चतुर्थपादार्थो हेतुत्वेनोपन्यस्तः। उत्तरत्र संबोधने 'व्यापारयन्त्यः' इति मृगीविशेषणत्वेनानेकः पदार्थों हेतुत्वेनोक्तः।
एंवमेकवाक्यार्थगतत्वेन काव्यलिङ्गमुदाह्रियते । यथा'मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः। पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥'
'यद्विस्मयस्तिमितमस्तमितान्यभाव
मानन्दमन्दममृतप्लवनादिवाभूत् । तत्संनिधौ तदधुना हृदयं मदीय
मङ्गारचुम्बितमिव व्यथमानमास्ते ॥' क्यते । तथाहि । 'वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य । श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहम्नः कषपट्टिकेव ॥' इत्यत्र वक्षःस्थल्या जगद्रक्षकत्वे जगत्प्रसूतित्वं पदार्थो हेतुः । प्रसवितुर्हि निजप्रसूतेः सर्वथैव रक्षणमुचितम् । अत एव गरुडध्वजवक्षःस्थल्या जगद्रक्षकत्वे कर्तृत्वं युक्तम् । इयांश्चाभिधेय एवार्थः । अत एव चात्र न हेतोः कश्चिद्व्यङ्गथाश्लेषः । इत्थम् । 'संजीवणोसहम्मिव सुअस्स रक्खइ अणण्णवावारा । सासू णवन्भदंसणकण्ठागअजीविअं सोह्नम् ॥' इत्यत्र कण्ठागतजीवितत्वस्य । अत्र च जगत्प्रसूतित्वस्य हेतोः पदार्थतयोपनिबन्धे न कश्चिदतिशयो विशेषः । एवम् । 'अयि प्र. मत्ते सिचयं गृहाणेत्युक्तेऽपि सख्या न विवेद काचित् । मना हि सा तत्र रसान्तराले यत्रान्तरङ्गो भगवाननङ्गः ॥' इत्यत्रापि ज्ञेयम् । यद्यपि चात्र रसशब्दस्य जलवाचित्वं न विवक्षितम् । तथाप्यभेदाध्यवसायादतिशयोक्तिर्न पुनः शब्दशक्तिमूलं व्यङ्ग्यम् । तथाले हि हेतुहेतुमद्भावस्य न कश्चिदतिशयः । एवं हि । 'एकान्तजाड्यादूरुभ्यां करभोः पराजिताः । कदल्यो यन्न तच्चित्रं जयः क्व न कलावताम् ॥' इत्यत्र जाड्यस्यातिशयोक्त्यालिङ्गितत्वेन वैचित्र्यावहत्वाच्छाब्दस्यापि पदार्थस्य हेतोरलंकारत्वं स्यात् । एवमुंदाहरणा
१. 'अनेकार्थवाक्यार्थरूपः' क. २. 'चतुर्थपादार्थे' क. ३. 'एवमेव' ख. ४. 'यथा' इति. क-पुस्तके नास्ति.
१. 'संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा । श्वश्रुर्नवाभ्रदर्शनकण्ठगतजीवितां स्नुषाम्' इति च्छाया.
१९