SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४६ काव्यमाला। पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेधस्य 'मनीषिताः' इति वाक्यार्थरूपो हेतुनिर्दिष्टः । उत्तरत्र पुनः 'अस्तमितान्यभावम्' इत्यत्र विस्मयस्तिमितमिति विशेषणद्वारेण पदार्थः । साध्यसाधननिर्देशोऽनुमानम् । यत्र शब्दवृत्तेन पक्षधर्मान्वयव्यतिरेकवत्साधनं साध्यप्रतीतये निर्दिश्यते सोऽनुमानमलंकारः । विच्छित्तिविशेषश्चात्रार्थाश्रयणीयः । अन्यथा तर्कानुमानात्कि वैलक्षण्यम् । उदाहरणम्'यथा रन्ध्र व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालो ज्वलनपरिपिङ्गाश्च ककुभ स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥' अत्र धूमस्फुलिङ्गकपिलदिक्त्वानि वहिलिङ्गानि त्रिरूपत्वाद्दवशब्दप्रतिपादितं.वह्नि गमयतीत्यनुमानम् । रूपकमूलत्वेनालंकारान्तरभङ्गीकारेण विच्छित्त्याश्रयणात्तर्कानुमानवैलक्षण्यम् । न्तरेष्ववसेयम् । एवं च यत्रापि व्यङ्गयाश्लेषः स्यात्तत्रापि हेतोर्वाक्यार्थपदार्थतयोपनिवन्धे न कश्चिदतिशयः । अथ साध्यप्रतीतये हेतोरुपनिबन्धादस्त्येव वैचित्र्यातिशय इति चेत् । तर्वानुमानमेवेदं स्यान्नालंकारान्तरम् । साध्यसाधनस्य तल्लक्षणत्वेन वक्ष्यमाणत्वात्। एवं हे. तोर्वाक्यपदार्थतयोपनिबद्धस्य वास्तवत्वादस्य पृथगलंकारत्वं न युक्तम् । उक्तवक्ष्यमाणनी. त्यानुमान एवान्तर्भावोपपत्तेः । साध्येत्यादि । एतदेव व्याचष्टे-यत्रेत्यादिना । एवं चात्र साध्यप्रतीतये त्रिरूपस्य साध्यस्य निर्देशात्तर्कानुमानसमानकक्ष्यमेवास्य लक्षणमिति भावः । यद्येवं तत्ततोऽस्य को विशेष इत्याशङ्कयाह-विच्छित्तीत्यादि । तच्चानुमानं द्विधा । स्वार्थ परार्थ च । तत्र स्वार्थ यत्र मयायमवगतोऽर्थ इति स्वपरामर्षस्य निश्चयः स्यात् । परार्थे तु यत्र परेणानवगतस्य वस्तुतः प्रतिपादनात्परप्रत्यायकत्वं स्यात् । एवं च । स्वार्थपरार्थभेदेन द्विविधमनुमानमेवैकोऽलंकारो वाच्यो न पुनरनुमानहेतुतया पृथगलंकारत्वम् । उभयत्रापि सामान्यलक्षणानुगमात्प्रकारप्रकारिभावस्यैवोपपत्तेः । तत्र स्वार्थानुमानं यथा ग्रन्थकृतैवोदाहृतम् । तत्र हि स्मरदवो लग्न इति स्वपरामर्षस्यैव निश्चयः । परार्थानुमानं यथा-'तदस्ति तेषां तमसि प्रसर्पिणां निशाचरत्वं यदि पारमार्थिकम् । ततः प्रिये संनिहितेऽत्र वासरे कथं नु तत्संचरणं भविष्यति ॥' अत्र दिवासंचरणस्य कार्यस्य विरुद्धं निशाचरत्वं परप्रत्यायको हेतुः । रूपकमूलत्वेनेति । रूपक१. 'रूपकमूलमेवेति' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy