________________
अलंकारसर्वखम् । १४७ क्वचित्तु शुद्धमपि भवति । यथा
'यत्रता लहरी चलाचलदृशो व्यापारयन्ति ध्रुवं ___ यत्तत्रैव पतन्ति संततममी मर्मस्पृषो मार्गणाः । तच्चक्रीकृतचापसञ्जितशरप्रेङ्खत्करः क्रोधनो
धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ॥' अत्र योषितां भ्रूव्यापारेण मार्गणपतनं स्मरपुरोगामित्वेऽसाध्येऽनलंकृतमेव साधनमिति शुद्धमनुमानम् । प्रौढोक्तिमात्रनिष्पन्नार्थनिष्ठत्वेन च विच्छित्तिविशेषाश्रयणाच्चारुत्वम् । अयमत्र पिण्डार्थः । इहास्ति प्रत्याय्यप्रत्यायकभावः । अस्ति च समर्थ्यसमर्थकभावः ।
तत्राप्रतीतप्रत्यायने प्रत्याय्यप्रत्यायकभावः । प्रतीतप्रत्यायने तु समर्थ्यसमर्थकभावः । तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम् । समर्थ्यसमर्थकभावे तु यत्र पदार्थो हेतुस्तत्र हेतुत्वेनोपादाने 'नागेन्द्रहस्तास्त्वचि कर्क
मन्तरेणानुत्थानात् । ननु चास्यालंकारान्तरगीकारमात्रमेव किं तर्कानुमानवैलक्षण्यनिमित्तम् । उतान्यदपि किंचिदित्याशङ्कयाह-क्वचिदित्यादि । अनलंकृतमिति । शासनधर्मादेः प्रौढोक्त्या वास्तवत्वेनैव विवक्षितत्वादतिशयोक्त्याद्यलंकारान्तरगर्भीकाराभावात्। अतश्चास्य कविकर्मैव वैलक्षण्यनिमित्तमिति भावः । तदाह-प्रौढोक्तीत्यादि । एवं च कविकर्माभावाद्यत्र विच्छित्तिविशेषाश्रयणं न स्यात्तत्र नायमलंकारः। यथा-'यो यत्कथाप्रसङ्गे च्छिन्नच्छिन्नायतोष्णनिःश्वासः । स भवति तं प्रति रक्तस्त्वं च तथा दृश्यसेसुतनु ॥'अत्र रक्तत्वं प्रति विशिष्टस्य निःश्वसितस्यार्थेऽपि हेतुत्वे वास्तवत्वात्कविप्रतिभानिर्वर्तितत्वाभावान्नायमलंकारः । यथा-'प्रजानां विनयादानाद्रक्षणाद्भरणादपि । स पिता पितरस्त्वासां केवलं जन्महेतवः ॥' अत्र विनयादानादिहेतूनां वास्तवत्वादनलंकारत्वम् ।न पुनरत्र हेतोरार्थस्वाभावादनलंकारत्वमिति वाच्यम् ।कविकर्मण एवालंकारनिबन्धनत्वेनोक्तत्वात् । अर्थत्वस्य तदप्रयोजकत्वात् । न हि हेतोरार्थत्वेऽपि कविकर्मव्यतिरेकेणालंकारत्वं स्यात् । तच्छाब्देऽपि हेतौ क्वचित्कविप्रतिभानिर्वर्तितत्वेनालंकारत्वाभ्युपगमे न कश्चिद्दोषः । ग्रन्थकृता पुनरेतच्चिरंतनमतानुरोधेनोक्तम् । तन्मतमेवाधिकृत्य ह्ययमत्रेत्यादिना विचारः प्रस्तुतः । तत्रेति द्वयनिर्धारणे । प्रतीतेति । बोद्धव्येन समर्थतया प्रमुख एवाधिगतस्येत्यर्थः ।
१. 'शुद्धमेव' क. २. 'यथा' इति ख-पुस्तके नास्ति. १. 'शासनधरादेः' क.