________________
१४८
काव्यमाला ।
शत्वात्' इत्यत्र न कश्चिदलंकारः यत्र तूपात्तस्य हेतुत्वं यथोदाहृते विषये ‘मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षा:' इत्यादौ तत्रैव काव्यलिङ्गम् । यत्र तु वाक्यार्थो हेतुस्तत्र हेतुप्रतिपादकमन्तरेण हेतुत्वायोपन्यासे काव्यलिङ्गमेव । तटस्थत्वेनोपन्यस्तस्य हेतुत्वेनार्थान्तरन्यासः । एवं चास्यां प्रक्रियायां कार्यकारणवाक्यार्थयोर्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति । समर्थक वाक्यस्य सापे - क्षत्वात् । ताटस्थ्याभावात् । ततश्च सामान्यविशेषभावोऽर्थान्तरन्यासस्य विषयः। यत्पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुक्तम्, तदुक्तलक्षणकाव्यलिङ्गमनाश्रित्य । तद्विषयत्वेन लक्षणान्तरस्यौद्भटैरनाश्रितत्वात् ।
उक्तलक्षणाश्रयणे तु यत्त्वनेत्रेत्यादिर्विविक्तो विषयः काव्यलिङ्गस्यार्थान्तरन्यासदर्शित इति कार्यकारणयोः समर्थ्य समर्थकत्वमर्थान्तरन्यासस्य पूर्व दर्शितमितीयती गमनिकाश्रयितव्या ।
एवं तर्कन्यायमूलमलंकारद्वयमुक्त्वा काव्यन्यायमूला अलंकारा उच्यन्ते
उद्दिष्टानामर्थानां क्रमेणानूद्देशो यथासंख्यम् ।
ऊर्ध्वं निर्द्दिष्टा उद्दिष्टाः । पश्चान्निर्देशोऽनूद्देशः । स चार्थादर्थान्तर
न कश्चिदलंकार इति । हेतुमात्ररूपत्वात् । हेतुत्ववाचकं विनापि तदधिगमे य चारुत्वातिशय इति भावः । यद्वक्ष्यति — हेतुत्वप्रतिपादकमन्तरेणेति । उपात्तस्येति । पारिशेष्यात्पदार्थस्य वाक्यार्थस्य हेतुत्वेनोपादानाभिधानात् । एकमिति पदार्थगतम् । हेतुत्वप्रतिपादक इति शब्दादिः । तटस्थत्वेनेति । न तु हेतुत्वेनेत्यर्थः । अत एव चानयोर्भेदः । ततश्चेति पारिशेष्यात् । ननु यद्येवं तत्पूर्वमर्थान्तरन्यासस्य केनाभिप्रायेण कार्य - कारणगतत्वेन समर्थकत्वमुक्तमित्याशङ्कयाह -- यत्पुनरित्यादि । लक्षणान्तरस्येति । पदार्थगतत्वेनैवेष्टेः । यदाहु: - 'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥' इति । यद्येतदुद्भटमताभिप्रायेणोक्तं तत्कथं स्वमतं संगच्छते इत्याशङ्कयाह — उक्तेत्यादि । विविक्तविषय इति । ताटस्थ्यव्यतिरेकेण वाक्यार्थस्य हेतुत्वायोपन्यासादर्थान्तरन्यासस्यात्रा व्यापृतेः । आश्रयितव्येति । न पुनर्वस्तुतः संभवतीत्यर्थः । एतदुपसंहरन्नन्यदवतारयति - एवमित्यादिना । उद्दिष्टानामि
१. ‘इत्यादाविव' ख. २. 'हेतुत्वप्रतिपादकं' ख. ३. 'आश्रयेण' क. १. 'अत्राप्रवृत्तेः ' ख.
•