________________
अलंकारसर्वखम् । गतः संबन्धश्चात्र सामर्थ्यात्प्रतीयते । ऊर्ध्व निर्दिष्टानामर्थानां पश्चानिर्दिष्टैरथैः क्रमेण संबन्धो यथासंख्यमिति वाक्यार्थः । अन्ये त्विममलंकारं क्रमसंज्ञयाभिदधिरे । तच्च यथासंख्यं शाब्दमार्थं च द्विधा । शादं यत्रासमस्तानां पादानामसमस्तैः पदैरर्थद्वारकः संबन्धः । तत्र क्रमसंबन्धस्यातिरोहितस्य प्रत्येयत्वात् । आर्थं तु यत्र समासः क्रियते तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादर्थावगमपर्यावलोचनया त्ववगतः क्रमसंबन्धः प्रतीयते । तथात्र यथासंख्यस्यार्थत्वम् । आद्यस्योदाहरणम्'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः ॥' अत्र लावण्यौकःप्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्रतीतेः । शाब्दं यथासंख्यं यथा
'कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः ।
जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥' अत्र कज्जलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धो हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते । अर्थानुगमानुसारेण त्ववयवानां क्रमसंबन्धावगतिरित्यार्थ यथासंख्यम् ।
त्यादि । अर्थादिति । उद्दिष्टानामेव ह्यनुनिर्देशे पौनरुक्त्यं स्यात् । सामर्थ्यादिति । वाक्यपर्यालोचनबलात् । अन्य इति । वामनादयः । यदाहुः–'उपमेयोपमानां क्रमसंबन्धतः क्रमः' इति । अनेनास्य प्राच्योक्तत्वं दर्शितम् । अव्यवहितत्वेनेति । समासाद्यभावात् । अवयवानामिति । हरिकज्जलादीनाम् । न चास्यालंकारत्वं युक्तम् । दोषाभावमात्ररूपत्वात् । उद्दिष्टानां क्रमेणानुनिर्देशे ह्यक्रियमाणेऽपक्रमाख्यो दोषः प्रसज्यते। यदक्तम्-'क्रमहीनार्थमपक्रमम्' इति । तच्च यथा-'कीर्तिप्रतापौ भवतः सू. र्याचन्द्रमसाविव' इति । दोषाभावमात्रं च नालंकारत्वम् । तस्य कविप्रतिभात्मकविच्छि
१. 'यथासंख्यम्' ख.
१. 'अस्य' क.