________________
१५०
काव्यमाला ।' एकमनेकस्मिन्ननेकमेकस्मिन्क्रमेण पर्यायः।
क्रमप्रस्तावादिदमुच्यते । एकमाधेयमनेकस्मिन्नाधारे यत्तिष्ठति स एकः पर्यायः । नन्वेकमनेकगोचरमिति प्राक्तनेन लक्षणेन विशेषालंकारोऽत्रोक्तः। तत्किमर्थमिदमुच्यते इत्याशङ्कयोक्तम्-क्रमेणेति । इह च क्रमोपादानादर्थात्तत्र यौगपद्यप्रतीतिः । तेनास्य ततो विविक्तविषयत्वम् । तथा
एकस्मिन्नाधारेऽनेकमाधेयं यत्स द्वितीयः पर्यायः । . नन्वत्र समुच्चयालंकारो वक्ष्यते इत्येतदर्थ क्रमेणेति योज्यम् । अत एव 'गुणक्रियायोगपद्यं समुच्चयः' इति समुच्चयलक्षणे योगपद्यग्रहणम् । अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्थमभिधानम् । विनिमयाभावात्परिवृत्तिवैलक्षण्यम् । तस्या हि विनिमयो लक्षणत्वेन
त्तिविशेषत्वेनोक्तत्वात् । तत्त्वे चास्य 'यथासंख्यमनुदेशः समानाम्' इत्यादिसूत्रोदाहरणानां 'तूदीशलातुरवर्मतीकुचवाराडक्छण्ढव्यकः' इत्यादीनामप्यलंकारत्वप्रसङ्गः । एतच्च वक्रोक्तिजीवितकृता सप्रपञ्चमुक्तमित्यस्माभिरिह नायस्तम् । ग्रन्थकृता पुनरेतदुद्भटमतानुयायि. तया लक्षितम् । एवमासत्तिविप्रकर्षवतां तदपेक्ष उपदेशाक्रम इति लक्षितः । क्रमोऽप्यनलंकार एव । दोषाभावमात्ररूपत्वात् । आदिपश्चानिर्देश्यानामतथानिर्देशे ह्यपक्रमाख्य एव दोषः स्यात् । यथा-'तुरङ्गमथ मातङ्गं मे प्रयच्छ मदालसम् ।' अत्र गजाश्वयोरादिपश्चानिर्देश्ययोरप्यतथानिर्देशादपक्रमत्वम् । अनयोश्च स्वस्थाननिर्देशे दोषाभावमात्रत्वम् । न पुनरलंकारत्वम् । तस्मात् । 'अवश्यं तदहो भाविवियोगो यत्र नो ध्रुवम् । परिच्छदसुहृद्वन्धुविषयेन्द्रियजीवितैः ॥' इत्यत्र परिच्छदादीनामन्यथानिर्देशे दोष एव स्यात् । न चात्र तादृक्कश्चिद्विशेष उपलभ्यते । येनानलंकारत्वं स्यात् । एवम्-'आस्तामस्तमयोऽहमित्यभिमतेर्दैहादिमात्रस्पृशो माभूद्वा विरतिर्ममेति च मृतेर्दारात्मजादिष्वपि । अस्माकं वसुवेश्मनिष्कुटनदीसीमानुकेदारिकादेशक्ष्मेशदिगादिकेष्वपि कथं सा हन्त नास्तं गता ॥' इत्यत्रापि ज्ञेयम् । एकमित्यादि । इदमिति पर्यायलक्षणम् । तदेव व्याचष्टे-एकमित्यादिना । एक इति द्वितीयापेक्षया । अतश्च द्वौ पर्यायौ । न पुनरेक एव । सामान्य. लक्षणायोगात् । अत एव काव्यप्रकाशकृता पृथगेतौ लक्षितौ । यदाह-'एकं क्रमेणानेकस्मिन्पर्यायः' इति । 'अन्यस्ततोऽन्यथा' इति च । ग्रन्थकृता त्वनयोरत्रान्यस्यान्यथा ग्रहणेन क्रमान्यथाभावोऽपि प्रसक्त इति दूषणोद्भावनयैवं लक्षणं कृतम् । एवं क्रमेणैकमनेकवान्यथा वा पर्याय इत्यपि सूचितं तस्यैव प्रयोजनं दर्शयति-नन्वित्यादिना। किमर्थमिति । विशेषालंकारेणैव तत्प्रतीतिसिद्धेः । अर्थादिति । पारिशेष्यात्मका