________________
अलंकारसर्वस्वम् ।
१५१ वक्ष्यते । तत्रानेकोऽसंहतरूपः संहतरूपश्चेति द्विविधः । तच्च द्वैविध्यमाधाराधेयगतमिति चत्वारोऽस्य भेदाः । क्रमेणोदाहरणानि
'नन्वाश्रयस्थितिरियं किल कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ
कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥' 'विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥' 'निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् ।
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥' 'यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत् । तत्रैव दैवावदने मदीये पत्नीति भार्येत गिरश्चरन्ति ॥'
अत्र कालकूटमेकमनेकस्मिन्नसंहते आश्रये क्रमेण स्थितिमन्निबद्धम् । करश्चैकोऽनेकस्सिन्संहते क्रमवान् । अधरकन्दुकयोनिवृत्त्युपादानतया संहृतत्वेन स्थितत्वात् । अभिसारिकाः शिवाश्चानेकस्वभावा असंहतरूपा सामर्थ्यादित्यर्थः । तेनेति । क्रमयोगपद्यरूपत्वेनेत्यर्थः । तत इति । विशेषात् । तथेत्यादि । अत्रापि क्रमग्रहणस्य प्रयोजनं दर्शयति-नन्वित्यादिना । अत एवेति। विशेषसमुच्चययोर्योगपद्यसंभवात् । अन्वर्थमिति । 'परावनुपात्य इण्' इत्यनेनानुपात्यये गम्यमाने घनो विहितत्वात् । अतश्चास्यैव क्रमार्थाभिधायित्वात्क्रमोऽपि पृथगलंकारतया न लक्षणीयः । अथात्रारोहावरोहयोरधिकयोः प्रतीतिरस्तीति युक्तमेवास्य पृथग्लक्षणमिति चेत् । एवं ताधाराधेयानां परस्परं विलक्षत्वाभ्यामप्यलंकारान्तरप्रणयनं स्यात् । तयोरप्यधिकयोः पर्याये संभवात् । न चात्र तावत्कश्चिदतिशय उपलभ्यते । येन पृथगलंकारत्वमपि स्यात् । एवमारोहादिना यदत्र वैलक्षण्यमवगम्यते तदेतद्भेदत्वे निमित्तम् । न पुनः पृथगलंकारतायाम् । एकस्यानेकत्रान्यथा वा क्रमेणावस्थानाख्यस्य सामान्यलक्षणस्यात्राप्यनुगमात् । एवं 'यदेकस्मानिवृत्तोऽर्थ आधारान्तरमाश्रयेत् । स पर्यायो निवृत्तौ तु क्रमोऽयं बहुधा स्थितः ॥' इत्यपि पर्यायादस्य पृथक्त्वे निमित्तं न वाच्यम् । निवृत्त्यनिवृत्त्योर्विच्छित्तिविशेषत्वाभावात् । तस्मादस्य पर्याय एवान्तर्भावात्पृथग्लक्षणप्रणयनं नवनवालंकारप्रदर्शनहेवाकमात्रमेवेत्यलं बहुना ॥ ननु चैकानेकरूपस्य वस्तुनोऽन्यत्र प्राप्तेः परिवृत्तिरेवायं किं नेत्याशङ्कयाह-विनिमयेत्यादि । संहतरूप इति । संघातरूप
१. 'आधाराधेयमिति' ख.