SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १९२ काव्यमाला | एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः । वचने चैकस्मिन्नाश्रये मुग्धत्वादिवर्ग: पत्नीत्यादिवर्गश्च वर्गत्वादेव संहतरूपोऽनेकः क्रमवानुपनिबद्धः । समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम् । समेन तुल्यगुणेन त्याज्यमानेन तादृशस्यैवादानम् । तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहः । एवं न्यूनेन हीनगुणेन त्याज्यमानेनाधिकगुणस्योत्कृष्टस्य स्वीकारः । तदेषा त्रिप्रकारा परिवृत्तिः । क्रमप्रतिभासंभवात्पर्यायानन्तरमस्या लक्षणम् । समपरिवृत्तिर्यथा— 'उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत । हिरण्याक्षवधाह्येषु यशः साकं जयश्रिया || ' अत्रोरोयशसोस्तुल्यगुणत्वम् । अधिक परिवृत्तिर्यथा - ‘किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥' अत्रोत्कृष्टगुणैराभरणैर्न्यूनगुणस्य वल्कलस्य परिवृत्तिः । न्यूनपरि वृत्तिर्यथा— 'अस्य हि प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यते बुधैः । येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥' इत्यर्थः । अस्येति शब्दसामान्यमवलम्ब्योक्तम् । असंहते इति । आश्रयाणामनेकत्वात् । क्रमेणेति । हृदयाद्यनुक्रमात् । एवमप्येकस्यैव कालकूटस्योत्तरोत्तराधिकस्थानासादनादारोहणप्रतीतिः । अवरोहो यथा - 'शिरः शार्व स्वर्गात्' इत्यादि । अत्र गङ्गाया उत्तरोत्तरस्थानासादनम् । संहते इति । अधरकन्दुकादेरनेकस्याश्रयत्वात् । क्रमवतिन्य इति । अभिसारिकाशिवानामतीत वर्तमानकालावच्छिन्नत्वात् । मुग्धत्वादीनां बहुत्वाद्वर्गत्वम् । समन्यू नेत्यादि । एतदेव व्याचष्टे - विनिमय इत्यादिना । तादृशस्येति । तुल्यगुणस्येत्यर्थः । अतश्चात्र द्वयोरपि तुल्यगुणत्वात्त्यज्यमानादीयमानयोर्गम्यमानमौपम्यम् । एवं च तन्निमित्तस्य साधारणधर्मस्यापि त्रैविध्यम् । अधिकत्वं न्यूनत्वं चोत्कृष्टत्वानुत्कृष्टत्वयोगात् । अतश्चात्र शब्दोपात्तदधति ( ? ) । क्वचित्सामर्थ्यलभ्यं तदिति १. ‘पत्नीत्वादिवर्गश्च’ ख. २. 'समानाधिकन्यूनैः' ख. १. ‘अतः' इत्यारभ्य ‘सामर्थ्यलभ्यम्' इत्यन्तं ख- पुस्तके नास्ति.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy