________________
अलंकारसर्वस्वम् ।
१५३ अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः । __'दत्वा दर्शनमते मयाणा वरतनु त्वया क्रीताः ।
किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥' अत्राद्ये समपरिवृत्तिः । द्वितीयार्धे न्यूनपरिवृत्तिः । एकस्यानेकपाप्तावेकत्र नियमनं परिसंख्या ।
एकानेकप्रस्तावादिह वचनम् । एकं वस्तु यदानेकत्र युगपत्संभाव्यते तदा तस्यैकत्रासंभाव्ये द्वितीयपरिहारेण नियमनं परिसंख्या । कस्यचित्परिवर्जनेन कुत्रचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या। सा चैषा प्रश्नपूर्विका तदन्यथा वेति प्रथमं द्विधा । प्रत्येकं च वैर्जनीयत्वेऽस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्यमिति चतुःप्रभेदाः । क्रमेण यथा
किं भूषणं सुदृढमत्र यशो न रत्नं
किं कार्यमार्यचरितं सुकृतं न दोषः । नियमस्य त्रिरूपत्वात् । क्रमप्रतिभासेति । त्यागादानयोः पौर्वापर्येण ऋमिकत्वात्। तुल्यगुणत्वमिति । वैपुल्यादिना साधारणधर्मस्यानुगामितया पुनरत्र तुल्यगुणत्वं यथा'सुधावदातं पाण्डुत्वं विनिधाय कपोलयोः । भीर्यत्कथोत्था शत्रूणां निःशेषमकरोद्यशः ॥' सुधावदातमित्यस्यानुगामित्वम् । बिम्बप्रतिबिम्बभावो यथा-'लतानामेतासामुदितकुसुमानां मरुदसौ मतं लास्यं दत्वा श्रयति भृशमामोदमसमम् । लतास्त्वध्वन्यानामहह दृशमादाय रभसाद्ददत्याधिव्याधिभ्रमरुदितमोहव्यतिकरम् ॥' अत्र मतासमत्वयोबिम्बप्रतिबिम्बभावः । शुद्धसामान्यरूपत्वं यथा-'मनोहरं स्वं प्रतिवेतनाय रुतं प्रकल्प्योन्मदचित्तहारि । म. ध्वाददानो मधुपायिलोकः पद्माकराणामनृणीबभूव ॥' अत्र मनोहरत्वचित्तहारित्वयोः शुद्धसामान्यरूपत्वम् । आभरणानां चात्रोत्कृष्टत्वं वस्तुसामर्थ्याल्लभ्यते । वल्कलस्य पुनर्वार्धकशोभीत्यनेन स्वयमेव न्यूनत्वमुक्तम् । एवं कलेवरयशसोरपि जर्जरोज्ज्वलत्वेन न्यूनाधिकत्वमुक्तम् । एतच्चास्य प्राच्यैरप्युक्तमिति रुद्रटोदाहरणेऽपि समपरिवृत्त्यादि योजयतिदत्वेत्यादिना । एकानेकेति । पर्याये एकस्यानेकत्र पर्यवसानादेरुक्तत्वात् । असंभाव्य इति । कविप्रतिभानिर्वतितत्वाभावाल्लोकोत्तर इत्यर्थः । न पुनः प्राप्तिविषयत्वेनासंभाव्यत्वं व्याख्येयम् । सर्वथाप्राप्तस्यार्थान्तरनिषेधमात्रपरो हि विधिः परिसंख्या । अत एवार्थान्तरनिषेधे तात्पर्यमेव दर्शयितुं द्वितीयपरिहारेणेत्युक्तम् । अपवर्जन इति । 'अप परीवर्जने' इति वचनात् । सेति । यथोक्तरूपा । एषेति । परिसंख्या । किं भूषणमिति
१. 'तस्यासंभाव्य एकत्र' ख. २. 'परिवर्जने कस्यचिद्वर्जने' स्व. ३. 'वर्जनीयत्वस्य क.
१. 'विनिमयस्य' ख. २. 'अतश्वास्याः ' ख.
२०