________________
अलंकारसर्वस्वम् । 'आ मुण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरं धारयसि ।
जुगुप्सस्यात्मानं नागरिक विदग्धाश्छल्यन्ते ॥' क्वचित्पुननिषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः संबन्धानुपपत्त्यापि भवति । यथा'उत्कोपे त्वयि किंचिदेव चलति द्राग्गूर्जरमाभृता
मुक्ता भून परं भयान्मरुजुषां यावत्तदेणीदृशाम् । पद्भ्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि
क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः ॥' अत्र मुक्तेति निषेधपदं तदन्यथानुपपत्त्या पादयोर्हसगतिप्राप्तिराक्षिप्यते । सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्धनिबन्धना निदर्शना ।
भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ।
अधुना भेदप्राधान्येनालंकारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा भवति । उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् । विपर्ययो न्यूनगुणत्वम् । क्रमेणोदाहरणम्यत्वम् । यथा वा-त्वद्वक्त्रलावण्यमिदं मृगाक्षि संलक्ष्यते पत्युरपि क्षपायाः। कथं त्वनेनाहृतमेतदद्य कलावतां वा किमसाध्यमस्ति ॥' अत्र चाटुषु नायिकायाः प्रस्तुतत्वाद्वऋमुपमेयम् । तद्धर्मस्य च लावण्यस्योपमाने शशिन्यसंभवः । एष इत्यसंभवद्वस्तुसंबन्धनिबन्धनो वा वाच्यः । आक्षिप्ताया इति । प्राप्तिपूर्वकत्वानिषेधस्य । सेति प्राप्तिः । सादृश्यमिति । पादयो«सगतितुल्याया गतेः प्रतीतेः । इयं च सामान्यस्यानुगामितया । यथा-अव्यात्स व इत्यादि । अत्र निसर्गवक्रताख्यधर्मस्यानुगामित्वम् । शुद्धसामान्यरूपत्वेन यथा-'हारेणामलकस्थूलमुक्तेनामुक्तकुन्तलः । फणीन्द्रबद्धतटस्य श्रियमाप स धूर्जटेः ॥' अत्रामुक्तबद्धयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावेन । यथा-'उह सरसदन्तमण्डलकपोलपडिमागओ मअच्छीइ । अन्ते सिन्दुरिअसलवत्तकरणिं वहइ चन्दो ॥' अत्र दन्तमण्डलसिन्दूरितत्वयोबिम्बप्रतिबिम्बभावः । भेदप्राधान्य इत्यादि । अधुनेति प्राप्तावसरम् । भेदस्य चात्र प्राधान्यादभेदस्य वस्तुतः सद्भावः ।
१. इयं प्राकृतच्छाया क-पुस्तके वर्तते, प्राकृतं तु नास्ति. ख-पुस्तके तु 'मुंडभिदिवोरफलवरोकरीवलो अर्थिरधरिसि । विगुश्वावसि अप्पाणालिआ छेआ छलिंगाति ॥' इत्यत्यशुद्धं प्राकृतमस्ति. २. 'यत्कोपे' ख. ३. 'असंभवत्संभवनिदर्शना' क.