SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥' इत्यत्र दृष्टान्तबुद्धिर्न कार्या । उक्तन्यायेन निदर्शनाप्राप्तेः । इयं सामान्येनैवासंभवात्प्रतिपादिता उपमेयवृत्तस्योपमाने संभवादपि भवति । उभयत्रापि संबन्धविघटनस्य विद्यमानत्वात् । तद्यथा 'वियोगे गौडनारीणां यो गण्डतलपाण्डिमा । अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषु ॥' __ अत्र गण्डतलं प्रकृतम् । तद्धर्मस्य पाण्डिम्नः खर्जूरीरेणुषु सँभवादौपम्यप्रतीतिः । एष च प्रकारः शृङ्खलान्यायेनापि भवति । यथानेति । प्रकृतवाक्यार्थे वाक्यार्थान्तरस्य समानाधिकरण्येनाध्यारोप्यमाणत्वात् । अतश्वान्यैर्वाक्यार्थयोः समानाधिकरण्यनिर्देशाच्छौतारोपसद्भावेन वाक्यार्थरूपकं यदुक्तं तत्तावदास्ताम् , यत्पुनः प्रतिवस्तूपमोदाहरणत्वमुक्तं तदयुक्तमेव । निरपेक्षयोर्वाक्यार्थयोधर्मस्य शुद्धसामान्यरूपत्वे प्रतिवस्तूपमा । न चात्रैकमपि संभवति । वाक्यार्थयोः सापेक्षत्वाच्छुद्धसामान्यरूपत्वाभावाच्च । अर्थापत्त्युदाहरणत्वमप्यत्रायुक्तम् । 'जाग्रतः कमलालक्ष्मी यजग्राह तदद्भुतम् । पादद्वन्द्वस्य मत्तेभगतिस्तेये तु का स्तुतिः ॥' इत्यत्र तु प्रतिवस्तूपमोदाहरणत्वं पापात्पी(त्पापी ?)यः । अत्र हि वाक्यार्थयोः परस्परं साहश्यमात्रमपि नास्तीति का कथा प्रतिवस्तूपमायाः । एवंविधमेव चान्यत्र सर्वालंकारोदाहरणेष्वासमञ्जस्यं संभवदपि समनन्तरोक्तहेतुद्वयान्न दर्शितम् । तथा च 'आज्ञाधरः पञ्चशरः पुरस्तात्सुधा पुनः कर्मकरी मुखस्य । स चापि सौन्दर्यविशेषबन्दी योन्दुरिन्दीवरलोचनानाम् ॥' इत्यत्र विषयविषयिणोईयोरप्युपादानात्स्फुटेऽपि रूपकत्वेऽतिशयोक्त्युदाहरणत्वमुक्तं तत्र चातिशयोक्तित्वमेव नास्तीति किं कार्यकारणभावपूर्वकत्वनिदर्शनेनेत्यलं बहुना । असंभवद्वस्तुसंबन्धनिबन्धनायाश्च यद्यपि वस्तुसंबन्धस्याविशेषेण संभव उक्तस्तथापि समनन्तरोक्तोदाहरणेषु यथोपमानसंबन्धी धर्म उपमेयगतत्वेनैव संभवति तथैवोपमेयसंबन्धी धर्मः क्वचिदुपमानेऽपीत्याह-इयमित्यादि । उभयत्रेत्युपमेये उपमाने वा। वसन्तवर्णनस्य प्रक्रान्तत्वाद्द्योः प्रकृतत्वेऽपि गण्डतलस्योपमेयत्वम् । तद्गतत्वेनैव पाण्डिनः सिसाधयिषितत्वात् । सिद्धसाध्यधर्मत्वमेव चोपमानोपमे १. 'सामान्येनोपमानवृत्तस्योपमेयेऽसंभवात्' ख. २. 'संबन्धन' क. ३. 'अदृश्यत' ख. ४. 'असंभवात्' ख. १. 'असामान्य' ख. २. 'अन्यत्राप्युक्तम्' ख. ३. 'गतिः' ख. ४. 'पापोत्यापीयः' ख. ५. 'उपचारात्' क. ६. 'निर्मूलनेन' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy