SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसंबन्धः । असंभवद्वस्तुसंबन्धा यथा ७७ 'अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् । जटापिनद्धोरगराजरत्नमरीचिलीढोभयकोटिरिन्दुः ॥' अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभवलीलासदृशीं लीलामवगमयतीत्यदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तम् । एषापि पदार्थवाक्यार्थवृत्तिभेदाद्विविधा । पदार्थवृत्तिः समनन्तरमुदाहृता । वाक्यार्थवृत्तिर्यथा— ‘त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥' केचित्तु दृष्टान्तालंकारोऽयमित्याहुस्तदसत् । निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः । यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता, न दृष्टान्तः । एवं च जात इत्येवमात्मिकायाः प्रतिपत्तेरभावात् । अतश्च सत्यसति वा संबन्धे निदर्शनेति वाच्यम् । तेन यथोक्तमेव भेदद्वयं स्यात् । असंभवदिति । धर्म्यन्तरसंबन्धिनो धर्मस्य धर्म्य - न्तरेऽन्वयायोगात् । अदूरविप्रकर्षादिति । धर्ममुखेन सादृश्यस्य किंचित्प्रत्यासन्नत्वात् । यथा वा -' - 'अङ्गे पुलअं अहरं सवेपिअं जम्पिअं ससिक्कारम् । सव्वं सिसिरेण कअं जं काअव्वं पिअअमेण ॥' अत्र वल्लभकार्यस्य पुलकादेर्धर्मस्य वस्त्वन्तरभूतेन शिशिरेण करणमसंभवत्तस्य साम्यमवगमयतीति शिशिरस्य वल्लभतुल्यताप्रतीतेरौपम्यम् । अतश्चात्र धर्माणामसंबन्धाभावान्न निदर्शनेत्युक्त्वा प्रतिमालंकारत्वं न वाच्यम् । प्रतिमायाश्चान्यो - दाहरणेष्वलंकारान्तरादियोगः स्फुट एवेति न पृथगलंकारत्वं वाच्यम् । एवमन्येषामपि समग्राणामभिनवालंकाराणां चान्यैरन्यालंकारयोगो योजयितुं शक्य एवेति ग्रन्थविस्तर - भयादस्मद्दर्शने तद्दृषणोद्धारस्यैव च प्रतिज्ञातत्वादस्माभिः प्रतिपद्येन (न) दूषितम् । न पुनरेतावतैव परमतमप्रतिषिद्धमनुमतमेवेति दृशा एषामपि पृथगलंकारत्वं युक्तं मन्तव्यम् । एषेत्यसंभवद्वस्तुसंबन्धनिबन्धना । न केवलं निदर्शना यावत्तद्भेदोऽप्ययं द्विविध इत्यपि - शब्दार्थः । उदाहृतेति 'अव्यात्स वः' इत्यादिना । केचिदिति श्रीमम्मटादयः । तदिति दृष्टान्तालंकारवचनम् । एतदन्यत्रापि योजयति - एवमित्यादिना । उक्तन्याये १. 'बालैः' क. २. 'प्रतिपाद्य तेन' ख. ३. 'पुनस्तावतैव' ख. ४. 'अशेघाणामपि ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy