SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। पम्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । द्वितीयो यथा'कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः । तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ॥ - अत्र निहत्वादेः स्थानादिना वैधhण प्रतिबिम्बनम् । - संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना। प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् । तत्र क्वचित्संभवन्नेव वस्तुसंबन्धः स्वसामर्थ्याद्विम्बप्रतिबिम्बभावं कल्पयति । क्वचित्पुनरन्वयबाधादसंभवता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते । तत्र संभवद्वस्तुसंबन्धा यथा 'चूडामणिपदे धत्ते यो देवं रविमागतम् । सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥' बिम्बनम् । यन्निबन्धनं चेति । अर्थालंकारत्वं न पुनरौपम्यम् । तस्य च समनन्तरोक्तयुक्त्यासंभवात् । संभवतेत्यादि । बिम्बप्रतिबिम्बभावमिति । उपमानोपमेयत्वमित्यर्थः । धर्मधर्मिणोरभेदोपचारात् । एवं चात्र निदर्शनायां सादृश्याविनाभावः । तेन 'प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरीनवोढा न ब्रीडामुकुलितमुखीयं कथयति । लिखन्तीनां पत्राङ्करमनिशमस्यास्तु कुचयोश्चमत्कारो गूढं करजपदमासां प्रथयति ॥' इत्यादौ संभवत्यपि वस्तुसंबन्धे प्रथनस्यौपम्याभावान्न निदर्शनालंकारत्वम् । अनेनैव वस्तुसंबन्धस्य संभवासंभवाभ्यामस्या भेदद्वयमप्युक्तम् । तदेवोदाहरति-चूडामणीत्यादिना । तत्समर्थाचरणे प्रयोगादिति । 'कारीषोऽध्यापयति' इत्यादिवत् । अभ्यागतस्य वेनिरिणा शिरसा धारणं तत्समर्थाचरणम् । अत एवात्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगान्मयेव भवद्भिरप्यतिथिसपर्या कार्यात संभवत्संबन्धमूलमत्रार्थमौपम्यम् । एवं च पर्वतस्य बोधनक्रियाकर्तृत्वासंभवादेवाभिमन्तव्यापारोपारोहाभावान्नात्र प्रतीयमानोत्प्रेक्षा। नापि स्मृत्यलंकारः । गृहमेधिनां गृहकर्तृकस्य सद्विषयातिथ्यबोधकत्वस्य वाक्यार्थत्वात् । तत्र हि सदृशदर्शनाद्वस्त्वन्तरस्य स्मृतिर्भवति । नचात्र गृहमेधिनां रविदर्शनादतिथिस्मृतौ कर्तृत्वम् । तेषां सदातिथ्यकर्तव्यताया बोध्यत्वात् । नाप्यत्र रविणातिथेरतिथिना वा खेः साम्यं विवक्षितम् । अपि तु मयेव गृहमेधिभिरपि सतामातिथ्यं कार्यमिति । अत एव नात्र वस्त्वन्तरकरणात्मापि विशेषालंकारः । तपनावगमेऽतिथ्यादेरसंभाव्यस्यावगमो १. 'चमत्कार' क. २. 'करणादपि ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy