________________
७५
अलंकारसर्वस्वम् । अत्र चतुरत्वं साधारणो धर्म उपमेयवाक्ये निपुणपदेन निर्दिष्टः । न केवलमियं साधर्म्यण यावद्वैधप॑णापि । यथात्रैवोत्तरस्थाने 'विनावन्तीन निपुणाः सुदृशो रतनैर्मणि' इति पाठे।
तस्यापि विम्बप्रतिबिम्बभावतया निर्देशे दृष्टान्तः ।
तस्यापीति न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधाभ्यां द्विविधः । आयो यथा'अब्धिर्लवित एव वानरभटैः किं त्वस्य गम्भीरता
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः । दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं ___जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ॥' अत्र यद्यपि ज्ञानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौ
अत एवात्रार्थान्तरोपादानं प्रकृतस्य न क्वाप्युपयुक्तमपि तु प्रतिपत्तुः प्रकृतार्थप्रतीतेरविस्पष्टतानिरासात् । केचिच्च दृष्टान्ते द्वयोः समर्थ्यसमर्थकभावेनानयोर्भेदमाहुः । तदसत् । यतः सरूपयोविशेषयोः समर्थ्यसमर्थकभावो न भवति । वस्त्वन्तरेण वस्त्वन्तरसिद्धयनुपपत्तेः । नहि सामान्यविशेषयोरेव भवति । सामान्यस्य नियमेन विशेषनिष्ठत्वाद्विशेषस्य च नियमेन सामान्याश्रयत्वात् । यदि चात्र समर्थ्यसमर्थकभावः स्यादर्थान्तरन्यासादस्य पृथगलंकारता न स्यात् । समर्थ्यसमर्थकभावात्मनः सामान्यस्योभयत्राप्यनुगमात् । अन्ये पुनरुभयत्राप्यार्थमौपम्यमाश्रित्य सामान्यस्य शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां व्यवस्थितेरनयोर्भेदमाहुः । तदप्यसत् । एतावतैवौपम्याख्यस्य सामान्यलक्षणस्यानुगतत्वादुपमाभेदवदनयोः पृथगलंकारत्वानुपपत्तेः । तदेवं वाक्यनैरपेक्ष्येऽपि वक्तृप्रतिवक्रोरेव विशेषादनयोर्भेदः सिद्धः । वैधयेणापीति । भवतीति शेषः। तस्यापीति । उपमानोपमेययोरिति । प्रकृताप्रकृतयोधर्मिणोरित्यर्थः । अतश्च धर्माणां धर्मिणां च बिम्बप्रतिबिम्बभावेन निर्देशोऽयमलंकारः । यदुक्तमन्यत्रापि–'दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति । उपमानोपमेययोरिति तु स्वार्थ एव (न) व्याख्येयम् । अर्थान्तरस्य प्रकृतदाक्योपादानात्सादृश्यस्याविवक्षणात् । आद्य इति साधर्म्यण । यथा वा-स्थानेषु शिष्यनिवहैः प्रतिपाद्यमाना विद्या गुरुं हिं गुणवत्तरमातनोति । आदाय शुक्तिषु बलाहकविप्रकीर्णै रत्नाकरो भवति वारिभिरम्बुराशिः ॥' अत्र स्थानादीनां शुक्त्यादिभिः प्रति
१. 'उपमान' क. २. 'कर्मणि' क. १. 'प्रतिपत्तेः' क. २. 'प्रतिपत्त्योः ' क.