Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
त्वेन तावप्रतिष्ठितोऽयमलंकारः । तत्राचं प्रकारद्वयं तुल्ययोगिताया विषयः । तृतीये तु प्रकारे दीपकं भवतीति तावदलंकारद्वयमिदं श्लेषविषये व्याप्त्या व्यवतिष्ठते । तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विविक्तोऽस्य विषयः । अत एवालंकारान्तराणां बाधितत्वात्प्रतिभानमात्रेणावस्थानम् । 'येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम् । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तेः । 'रक्तच्छदत्वं' इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः । 'नालं' इत्यादौ तु शब्दद्वयाश्रितत्वाच्छब्दालंकारोऽयम् । यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने 'रक्तच्छदत्वं' इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्तिकत्वादत्र शब्दभेदस्य प्रेतीतेरेकतावसायान्नास्ति शब्दभेदः । 'नालं' इत्यादौ तु प्रयत्नादिभेदात्त्रातीतिक एव शब्दभेदः। अतश्च पूर्वत्रैकवृन्तगतफलद्वयन्यायेनार्थद्वयस्य शब्दश्लिष्टत्वम् । अपरत्र जतुकाष्ठन्यायेन खयमेव श्लिष्टत्वम् । पूर्वत्रान्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालंकारत्वमिति चेत्, तथा नोक्तम् । पूर्वेषामित्युद्भटादीनाम् । अविप्रतिपत्तिद्योतकस्तावच्छब्दः । व्याप्त्येति। सर्वलक्ष्यव्यापकत्वेन सर्वत्रैवास्य त्रिरूपत्वात् । तत्पृष्ठ इति तुल्ययोगितादीपकोपरि । अलंकारान्तराणामित्युपमादीनाम् । उत्थापनमिति । तुल्ययोगितादीपकाभ्यामपि तत्प्रतीतेरुद्रेकात् । अत एवेति । तस्य विविक्तविषयत्वासंभवात् । प्रतिमानमित्याभासमात्रम् । न पुनस्तत्रैव विश्रान्तिरित्यर्थः । एतच्च यथा नोपपद्यते तथा समनन्तरमेवोक्तम् । अस्य च शब्दार्थाश्रितत्वादुभयालंकारतां दर्शयति-अलंकार्येत्यादिना । ननु च 'यावन्त एवमर्थाः स्युः शब्दास्तावन्त एव हि' इत्यायुक्त्यारक्तच्छदत्वमित्यादावपि शब्दद्वयाश्रयाच्छब्दालंकार एवायं तत्कथमन्यथोक्तमित्याशङ्कयाह-यद्यपीत्यादि । ए. कतावसायादिति । रक्तच्छदत्वादेः प्रयत्नादिभेदं विना सादृश्येनार्थद्वयाभिधानात् । अतश्चेति । अर्थद्वयस्य शब्दद्वयस्य च श्लिष्टत्वात् । पूर्वत्रेति । रक्तच्छदत्वमित्यादौ शब्दस्य वृन्तस्थानीयत्वात् । अपरत्रेति नालमित्यादौ । जतुकाष्ठन्यायेनेति परस्परं संव. लितत्वात् । पूर्वत्रेति रक्तच्छदत्वमित्यादौ । अन्वयव्यतिरेकाभ्यामिति । रक्तच्छदत्वमित्येव शब्दे स्थिते श्लेषः शब्दपरिवर्तने तु कृते न श्लेष इत्यत्रापि शब्दहेतुकत्वात्तद
१. 'प्रतितिष्ठतो' क. २. “एव विषयः' क. ३. 'उत्थानं' क. ४. 'प्रतिभासनम्' ख. ५. 'प्रतीतो' क. ६. 'भेदात्म' क. १. 'उत्थानमिति' क. २. 'कृष्णच्छदत्वमित्येव' क.

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218