SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। त्वेन तावप्रतिष्ठितोऽयमलंकारः । तत्राचं प्रकारद्वयं तुल्ययोगिताया विषयः । तृतीये तु प्रकारे दीपकं भवतीति तावदलंकारद्वयमिदं श्लेषविषये व्याप्त्या व्यवतिष्ठते । तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विविक्तोऽस्य विषयः । अत एवालंकारान्तराणां बाधितत्वात्प्रतिभानमात्रेणावस्थानम् । 'येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम् । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तेः । 'रक्तच्छदत्वं' इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः । 'नालं' इत्यादौ तु शब्दद्वयाश्रितत्वाच्छब्दालंकारोऽयम् । यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने 'रक्तच्छदत्वं' इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्तिकत्वादत्र शब्दभेदस्य प्रेतीतेरेकतावसायान्नास्ति शब्दभेदः । 'नालं' इत्यादौ तु प्रयत्नादिभेदात्त्रातीतिक एव शब्दभेदः। अतश्च पूर्वत्रैकवृन्तगतफलद्वयन्यायेनार्थद्वयस्य शब्दश्लिष्टत्वम् । अपरत्र जतुकाष्ठन्यायेन खयमेव श्लिष्टत्वम् । पूर्वत्रान्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालंकारत्वमिति चेत्, तथा नोक्तम् । पूर्वेषामित्युद्भटादीनाम् । अविप्रतिपत्तिद्योतकस्तावच्छब्दः । व्याप्त्येति। सर्वलक्ष्यव्यापकत्वेन सर्वत्रैवास्य त्रिरूपत्वात् । तत्पृष्ठ इति तुल्ययोगितादीपकोपरि । अलंकारान्तराणामित्युपमादीनाम् । उत्थापनमिति । तुल्ययोगितादीपकाभ्यामपि तत्प्रतीतेरुद्रेकात् । अत एवेति । तस्य विविक्तविषयत्वासंभवात् । प्रतिमानमित्याभासमात्रम् । न पुनस्तत्रैव विश्रान्तिरित्यर्थः । एतच्च यथा नोपपद्यते तथा समनन्तरमेवोक्तम् । अस्य च शब्दार्थाश्रितत्वादुभयालंकारतां दर्शयति-अलंकार्येत्यादिना । ननु च 'यावन्त एवमर्थाः स्युः शब्दास्तावन्त एव हि' इत्यायुक्त्यारक्तच्छदत्वमित्यादावपि शब्दद्वयाश्रयाच्छब्दालंकार एवायं तत्कथमन्यथोक्तमित्याशङ्कयाह-यद्यपीत्यादि । ए. कतावसायादिति । रक्तच्छदत्वादेः प्रयत्नादिभेदं विना सादृश्येनार्थद्वयाभिधानात् । अतश्चेति । अर्थद्वयस्य शब्दद्वयस्य च श्लिष्टत्वात् । पूर्वत्रेति । रक्तच्छदत्वमित्यादौ शब्दस्य वृन्तस्थानीयत्वात् । अपरत्रेति नालमित्यादौ । जतुकाष्ठन्यायेनेति परस्परं संव. लितत्वात् । पूर्वत्रेति रक्तच्छदत्वमित्यादौ । अन्वयव्यतिरेकाभ्यामिति । रक्तच्छदत्वमित्येव शब्दे स्थिते श्लेषः शब्दपरिवर्तने तु कृते न श्लेष इत्यत्रापि शब्दहेतुकत्वात्तद १. 'प्रतितिष्ठतो' क. २. “एव विषयः' क. ३. 'उत्थानं' क. ४. 'प्रतिभासनम्' ख. ५. 'प्रतीतो' क. ६. 'भेदात्म' क. १. 'उत्थानमिति' क. २. 'कृष्णच्छदत्वमित्येव' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy