________________
अलंकारसर्वस्वम् । 'रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः ।
निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेनुः श्रमणा यथैव ॥" अत्र रक्तच्छदत्वमित्यादावर्थ श्लेषः । नालमित्यादौ शब्द श्लेषः । (उभयघटनायामुभयश्लेषः ।) ग्रन्थगौरवभयात्तु पृथङ्गोदाहृतम् ।
एष च नाप्राप्तेष्वलंकारान्तरेष्वारभ्यमाणस्तद्बोधकत्वेन तत्प्रतिभोत्पत्तिहेतुरिति केचित् । 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतः' इत्यादौ विविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्यबाधकत्वमित्यन्यैः सह संकरः । दुर्बलत्वाभावान्नान्यबाधकत्व(ध्यत्व)मित्यन्ये । तत्र पूर्वेषामयमभिप्रायः । इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचरदृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा॥' अत्र पदानां सभङ्गत्वं स्पष्टम् । अर्थश्लेषो यथा'इच्छन्तौ चिबुकानचुम्बनमथो शैथिल्यशोज्झितौ नैबिड्येन परस्परस्य न मनाकेनापि लब्धान्तरौ । धन्यौ तौ तरुणीस्तनाविव न यौ स्वप्नेऽपि विश्लिष्यतो विश्लेषं विषमं विषय भवतो नाधोमुखौ जातु वा ॥' अत्र पदानामसभङ्गत्वं स्पष्टम् । संकलनया तु ग्रन्थकृतैवो. दाहृतम् । तदेवंरूपस्यास्य 'निरवकाशा हि विधयः सावकाशान्विधीन्बाधन्ते' इति नीत्या निरखकाशत्वात्सर्वालंकारापवादकत्वं केचिदाहुरित्याह-एष चेत्यादि । केचिदित्युद्भटादयः। केचित्पुनर्विषयवैविक्त्यस्य संभवान्निरवकाशत्वाभावान्नास्य सर्वालंकारापवादकत्वमभ्युपयन्तीत्याह-येनेत्यादि । अन्या इति मादृशाः । विविक्तोऽस्य विषय इति तुल्ययोगिताया अत्राभावात् । सा हि द्वयोरपि प्रकृतयोरप्रकृतयोर्वा विशेष्ययोः पृथगुपादाने औपम्यस्य च गम्यत्वे भवति । इह तु तदभावः । विशेष्ययोः पृथगनुपादानात् औपम्यस्य च गम्यत्वाभावात्.। नह्यत्रोमाधवस्य माधवेन तेन वा तस्य सादृश्यं विवक्षितम् । एकेनैव शब्देन श्लिष्टतयार्थद्वयस्य प्रतिपिपादयिषितत्वात् । अत्र हि परस्परनैरपेक्ष्यात्तयोरुमाधववाक्यार्थपरामर्शवेलायां माधववाक्यार्थपरामर्शमात्रमपि नास्तीति को नामौपम्यस्यावसरः । तस्मादेवमादावलंकारान्तरविविक्तविषयत्वाच्छुिष्टतायाश्चौद्धरकंधरीभावेन प्रतीतेर्न निरवकाशः श्लेषः । अन्यैः सह संकर इति द्वयोरपि तुल्यकक्षताप्रतीतेः । बाध्यत्वमिति । श्लेषस्य दुर्बलत्वादलंकारान्तराणां च बलवत्त्वात् । एतच्च ग्रन्थकृदेवाने दर्शयिष्यतीति नेहायस्तम् । तदेवमस्य सर्वालंकारापवादकत्वं न युक्तम् । अन्यालंकारवदेव बाध्यबाधकभावादिदर्शनात् । एतच्चालंकारसारकृता सप्रपञ्चमुक्तमितीह ग्रन्थविस्तरभया
१. 'इत्यत्र' क. २. कोष्ठकान्तर्गतः पाठः ख-पुस्तके नास्ति. ३. 'एषु' क. ४. च, प्राप्तेषु' ख. ५. 'बाधकत्वात्' क. ६. 'इह' क. ७. 'दुर्लभत्वा' क. १. 'दुर्लभत्वात्' क.
१३