________________
९६
काव्यमाला |
आधे तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम् । अत एवाह - 'द्वयोर्वोपादाने' इति तृतीयप्रकारविषयत्वेनोक्तम् । 'विशेष्यस्यापि साम्ये' इति तु शिष्टप्रकारद्वयविषयम् । क्रमेण यथा
'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्वोत्तभुजंगहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥' 'नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणे ॥' 'स्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात्समाक्षिपति जीवनमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥'
अत्र हरिहरयोर्द्वयोरपि प्राकरणिकत्वम् । पद्मानां मृगाणां चोपैमानत्वादप्राकरणिकत्वम् । ईश्वरमनोभावयोः प्राकरणिकाप्राकरणिकत्वम् । एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्रिविधः । तत्रोदात्तादिस्वरभेदात्प्रयत्नभेदाच शब्दान्यत्वे शब्दश्लेषः । यत्र प्रायेण पदभङ्गो भवति । अर्थश्लेतु यत्र स्वरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । संकलनया तूभय श्लेषः । यथा
-
――――
यथैवायं ध्वनेर्विषयस्तथैवाद्यमपि भेदद्वयं किं न भवतीत्याशङ्कयाह - आद्य इत्यादि । वाच्यत्वमिति । अत एव न ध्वनेर्विषयः । तस्य वाच्यातिरिक्तस्वरूपत्वात् । तृतीयप्रकारविषयत्वेनेति प्राधान्यादुक्तम् । आयस्यापि प्रकारद्वयस्य द्वयोरुपादानसंभवात् । एष इति त्रिविधोऽपि श्लेषः । तत्रेति त्रयनिर्धारणे । यत्रेति शब्दश्लेषे । अत स्वरादिभेदाभावात् । संकलनयेति संसभङ्गासभङ्गपदसंमेलनया । पृथगिति भेदेन । तत्र शब्दश्लेषो यथा- 'ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते तेषां तैः समलंकृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिताः प्रत्यहं ये
१. ‘विशेषत्वेन' ख. २. 'लिष्ट' क. ३. 'प्राकरणिकत्वात्' क.
१. ‘यैरेवायं' ख. २. 'सभङ्गासभङ्गपदभङ्गमेलनया' क. ३. 'सदा दृश्यते' ख. ४. 'तैश्चापि' खं.