________________
अलंकारसर्वस्वम् ।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः
कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥'
अत्र राज्ञ इत्यादौ सोत्प्राशपरत्वं प्रसन्नगम्भीरपदत्वम् । एवम् 'अ-ङ्गराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षैनं भीमाद्दुःशासनम्' इत्यादौ ज्ञेयम् ।
९९
विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः ।
केवलविशेषणसाम्यं समासोक्तावुक्तं विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते । तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्राकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः । तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति । तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति । विशे
साम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरगैतध्वनेर्विषयः स्यात् । दक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धेरन्यदेव नाममात्रेण राजत्वमित्युपहासपरत्वम् । एवमन्येषामपि स्वयमेवैतदवगन्तव्यम् । आदिशब्देन 'यस्यैकस्यैव दोष्णां जयति दशशती सान्वयो द्वारि रुद्रः कारागारे सुराणां पतिरपि च शची चामरव्यग्रहस्ता । कन्या तस्येयमेका रजनिचरपतेरेष शुद्धान्तमेको बालो निःशङ्कमस्याः प्रविशति च नमस्तेजसे वैष्णवाय ॥ इत्यादावपि विशेषणानां प्रसन्नगम्भीरत्वं ज्ञेयम् । विशेष (ष्य) स्थापी - त्यादि । इदमिति षलक्षणम् । आद्यमिति । प्राकरणिकगतत्वेनाप्राकरणिकगतत्वेन च । एवकारश्चात्र भिन्नक्रमो द्रष्टव्यः । तेन प्रकारद्वयमेवेति व्याख्येयम् । अतश्च तृतीयः प्रकारो विशेषणसाम्य एव भवतीति व्यवच्छेदफलम् । अन्यथा हि प्रकारद्वय - स्यास्य विशेष्यसाम्याभावेऽपि दर्शनादव्याप्तिः स्यात् । तद्यथा 'संचारपूतानि दिगन्तराणि ' इत्यादि । अत्र प्रभाधेन्वोर्द्वयोः प्रकृतयोर्विशेष्ययोः साम्याभाव: । 'आबाहूद्गतमण्डलाग्ररुचयः संनद्भवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदय प्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥' अत्र स्तनयोधयोरप्रकृतयोर्विशेष्ययोः साम्याभावः । विशेषणसाम्य एवेति न पुनर्विशेष्यसाम्ये । एतदपि विशेष्यसाम्ये किं न भवतीत्याशङ्कयाह - विशेष्यसाम्ये त्वित्यादि । यथा-' - 'लङ्कालआण पुत्तअ वसन्तमासम्मि लद्धपसराणम् । अपीअलोहिआणं वीहेइ जो पलासाणम् ॥' अत्र पलाशानामिति विशेष्यस्यापि ष्टत्वम् । प्रकरणवशाच्च वृक्षविशेषणामेव वाच्यत्वनियमात्प्रस्तुतत्वेन निशाचराणामप्रस्तुतानां व्यङ्गत्वम् । अत्र चोपमाया एव व्यङ्गयत्वं युक्तं नातिशयोक्तेरिति प्रकृतानुपयोगादिह नोक्तम् । ननु च
१. 'परम्' क. २. 'गति' ख.
१. 'वक्तव्यः' क. २. 'विशेष' ख. ३. 'देववधू' ख.