SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। पल ।। मन्थव्यथाव्युपशमार्थमिवाशु यस्य ___ मन्दाकिनी चिरमवेष्टत पादमूले ॥' - अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलंयातिशयोक्त्याध्यवसीयते। तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्ति गीकरोति । एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः । एवं 'नखक्षतानीव वनस्थलीनाम्' इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव । एवमियं समासाक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या । विशेषणसाभिप्रायत्वं परिकरः । विशेषणवैचित्र्यप्रस्तावादस्यह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेविषयः । एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम । यथा'राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च । गर्भीकारेणैवोत्प्रेक्षाया उत्थानात्। एवमिति । यथोक्तगत्येत्यर्थः। विशेषणेत्यादि । इहेति समासोत्त्यनन्तरम् । विशेषणानां चात्र बहुत्वमेव विवक्षितम् ।अन्यथा ह्यपुष्टार्थस्य दोषत्वाभिधानात्तन्निराकरणेन स्वीकृतस्य पुष्टार्थस्यायं विषयः स्यात् । एवमेवंविधानेकविशेषणोपन्यासद्वारेण वैचित्र्यातिशयः संभवतीत्यस्यालंकारत्वम् । प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्रा. धान्याभावाद्गीकारस्तदन्तःकृतत्वम् । अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात् । प्रसन्नत्वं वाच्यस्यैव प्राधान्येन निर्देशात् । गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात् । यत्र च प्रतीयमानं प्रत्युपसर्जनीकृतस्वार्थयोः शब्दार्थयोरवस्थानं स ध्वनेविषय इति (ध्वनिविदः । यदाहु:-'तत्परावेव शब्दार्थों यत्र व्यङ्गयप्रतिष्ठितौ । ध्वने: स एव विषयः' इति । अत्र च न तथात्वमित्युक्तं नायं ध्वनेविषय इति ।) अत एव नामाप्यस्य यौगिकमित्याह-एवं चेत्यादि । सोत्प्रार्शपरत्वमिति । तथा च राज्ञो जग १. 'पादमूल' क. २. 'चरणमूल' क. ३. 'भर्टपत्नी' क. १. 'निराकारेण' ख. २. 'विशेषः' ख. ३. 'तस्य' ख. ४. प्रतीयमानमनुपसर्जनीकृत्वा शब्दार्थयोः' ख. ५. कोष्ठकान्तः स्थितः पाठः क-पुस्तके नास्ति. ६. 'पर मिति' क, ७. 'राज्ञा' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy