SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९३ अलंकारसर्वस्वम् । इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या । विशेषणसाम्याभावात् । तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या । गत्यन्तरासंभवात् । यैस्तु नोक्ता तेषामुपमाख्ययैव । यत्र तु 'केशपाशालिवृन्देन' इत्यादौ समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् ।। सा च समासोक्तिरर्थान्तरन्यासेन क्वचित्समर्थ्यगतत्वेन क्वचित्समर्थकगतत्वेन भवति । क्रमेण यथा 'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥'. ___ 'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत्सर्वं नो संध्यां भजते रविः ॥ अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नायकव्यवहारप्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते । सामान्यस्य चात्र श्लेषवशादुत्थानम् । शान्ततडित्कटाक्षे. त्यौपम्यगर्भ विशेषणं समासान्तराश्रयेणात्र समानम् । असमाप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भण कार्योपनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते। आकृष्टिवेगविगलद्भुजगेन्द्रभोग निर्मोकपट्टपरिवेषतयाम्बुराशेः । रेवेति । न पुनरेकदेशविवर्तिन्युपमा । गत्यन्तरमलंकारान्तरम् । यैरित्युद्भटादिभिः । यत्र वित्यादेप्रन्थस्य पूर्वमेवास्माभिरभिप्राय उक्तः । सेत्युक्तप्रपञ्चा । सामान्यस्येत्यङ्गनाशब्दस्य स्त्रीत्वमात्राभिधानात् । श्लेषवशादिति । पयोधराणां हि श्लिष्टत्वम् । लिङ्गविशेषेति । रविसंध्ययोः पुंस्त्रीरूपेण कार्य भजनाख्यम् । एवमन्यालंकारसंमिश्रत्वमप्यस्या दशयति-आकृष्टीत्यादिना । सेत्युत्प्रेक्षा । एकः काल इति । ज्ञप्ती समासोक्ति १. 'उपसंख्ययैव' क. २. 'नायकनायिकाव्यवहारन्यासप्रतीतौ' ख. ३. 'नायकनायिका' ख. ४. 'आकृष्ट' क. १. 'आकृष्टेत्यादि' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy