SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥' इत्यत्रास्ति तावद्रविशशिनो यकत्वप्रतीतिः । न चात्र विशेषणसाम्यमिति सा कुतस्त्या । प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदो नायिकात्वप्रतीतौ तदानुगुण्यात्तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेत् आर्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम् । न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् । तत्कथमत्र व्यवस्था । उच्यते-एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तैदा सा केन प्रतिषिद्धा । सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात् । अथात्र नोपमानत्वेन नायकः स्वरूपेण प्रतीयते तथापि रविशशिनोरेव नायकव्यवहारप्रतीतिः । तयोरत्र नायकत्वात् । तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम् । इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः । यथा 'दन्ना जुहोति' इत्यादौ दन्नि संचार्यते विधिः एवमियमुपमानुप्राणिता समासोक्तिरेव । इह तु पुनः 'नेत्ररिवोत्पलैः पद्मर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥' किमस्या निमित्तमिति भावः । तदानुगुण्यादिति शरदो नायिकात्वप्रतीत्यनुगुणत्वात् । तयोरिति रविशशिनोः । कथमिति । प्रकृतार्थाननुगुणत्वात्साम्यायोगात् । कथमत्र व्यवस्थेति । विशेषणसाम्यायोगात्समासोक्तरप्राप्तेरेकदेशविवर्तिन्या उपमाया अनुक्तत्वात् । सामान्यलक्षणेति । उपमानोपमेययोः साधर्म्य भेदाभेदतुल्यत्वे उपमेति । एवमेकदेशविवर्युपमासामर्थ्यादेवात्र नायकत्वप्रतीतिरिति भावः । अथेति पक्षान्तरे । यदि चात्र पूर्वोक्तयुक्त्यैवानुगुण्याद्रविशशिनोः समासोक्तिमुखेन नायकत्वप्रतीतिस्तदानखक्षताभमिति विशेषणं कथं साम्येन योजयितुं शक्यमित्याशङ्कयाह-तदत्रेत्यादि । एतदेव शास्त्रान्तरप्रसिद्धदृष्टान्तमुखेन हृदयंगमीकरोति-यथेत्यादिना। अग्निहोत्रं जुहुयादित्यनेनोत्पत्तिविधिवाक्येन हि होमो विहितः तस्य च पुनर्विधानमदग्धदहन्यायेन यावदप्राप्त विधेविषय इत्यभ्युपगमान्न युज्यत इति तत्रायुक्तत्वादुपपदे दनि संचार्यत इत्यर्थः । उपमानुप्राणितेति । औपम्यगर्भविशेषणोत्थापितेत्यर्थः । समासोक्ति १. 'तत्' क. २. 'यद्यप्यत्रोपमानत्वेन' ख. ३. 'अपि तु' क. ४. नायकत्वप्रतीतिः' ख. ५. 'दधि' ख. १. 'अप्रकृतार्था' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy