SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अलंकार सर्वस्वम् । पूर्वामत्यजतः स्थिति शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम् ॥' अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः । 'प्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै रपि ज्ञेयो यो नो परिमितगतित्वं परिजहत् । अपूर्वव्यापारो गुरुवर बुधैरित्यवसितो न वाच्यो नो लक्ष्यस्तव सहृदयस्थो गुणगणः ॥' अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते । यतो रसो न तात्पर्यशक्तिज्ञेयः । नाप्यनुमानविषयः । न शब्दैरभिधाव्यापारेण वाच्यीकृतः । न लक्षणागोचरः । किं तु विगलितवेद्यान्तरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्वव्यापारविषयतोऽनुकार्यानुकर्तृगतत्वपरिहारेण सहृदयगत इति प्रसर्पत्तापर्यैरित्यादिपदै रस एव प्रतीयते । एवमन्यदपि ज्ञेयम् । 'पश्यन्ती पयेव यत्र तिरयत्यात्मानमभ्यन्तरे यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिघासारसात् । चाटूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं देव्या ते परया प्रभो सह रहः क्रीडादृढालिङ्गने ॥' अत्रागमप्रसिद्धे वस्तुनि लौकिक वस्तुव्यवहारसमारोपः । लौकिकवस्तुव्यवहारश्च रसादिभेदाद्बहुभेद इत्युक्तं प्राक् । तत्र शुद्धकार्यसमारोपे का - र्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथंचिद्योज्यम् । इह तु ९१ तत्र हि निखिलप्रमाणागोचरं परमात्मस्वरूपं दर्शितम् । तद्व्यवहारसमारोपोऽत्र कृतः । न ता त्पर्येति । यदुक्तम् – 'नाभिधैवं न तात्पर्य लक्षणानुमितिर्न वा । ध्वन्यन्तर्भावने शक्ता भेदेन विषयस्थितेः ॥' इति । अनुकार्यो रामादिः । अनुकर्ता नटादिः । तद्गोचरश्च न रसः प्रतीयते । यदुक्तम्- 'नानुकार्येऽपि रामादौ नटादौ नानुकर्तरि । रसः सचेतसां किं तु' इति । अन्यदिति । अन्यशास्त्रप्रसिद्धवस्तुसमारोपलक्षणम् । तदित्थं सप्रपञ्चां समासोक्तिं प्रतिपाद्य पुनरपि सहृदयानां हृदयंगमीकर्तु ग्रन्थकृदेतत्प्रतीतिं विभागेन लक्ष्ये योजयति - इह त्वित्यादिना । अविप्रतिपत्तिद्योतनार्थस्तावच्छब्दः । कुतस्त्येति । १. ' तव हृदयसंस्थो' क. २. 'बहुतर' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy