SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। 'द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरां शशिकलामलिखत्करागः । अन्तर्निमग्नचरपुष्पशरोऽतितापा त्कि किं चकार तरुणो न यदीक्षणाग्निः ॥' लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम् । 'यैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्ते स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥' अत्रागमशास्त्रप्रेसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः । 'सीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं न स्पृष्टं वचसा कदाचिदपि यदृष्टोपमा न यत् । अर्थादापतितं न, यन्न च न यत्तत्किचिदेणीदृशां लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकृत् ॥' अत्र लावण्ये लौकिके मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः । एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः । 'स्वपक्षलीलाललितैरुपोढहेतौ मरे दर्शयतो विशेषम् । मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत् ॥' अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः। ____ मन्दमग्निमधुरर्यमोपला दर्शितश्चयथु चाभवत्तमः । दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौ ॥" अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः । 'गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वैधृते रक्षामाचरतः सदा बिदधतो लाटेषु यात्रोत्सवम् । १. 'तत्क्षणम्' ख. २. 'वृत्ते' ख. ३. 'लडितैः' क. ४. 'व्याख्येयः । तथा' ख. ५. . 'राज्ञा' ब.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy