________________
अलंकारसर्वस्वम् |
तदेवं पञ्चप्रकारा समासोक्तिः । इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः । विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् । सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तु व्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः । लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः । शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा भवति । तदेवं बहुप्रकारा समासोक्तिः । तत्र शुद्धकार्यसमारोपेण यथा -
'विलिखति कुचावुच्चैर्गाढं करोति कचग्रहं
लिखति ललिते व पत्रावलीमसमञ्जसाम् । क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं मरुभुवि हठान्नश्यन्तीनां तवारिमृगीदृशाम् ||' अत्र पत्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्रतीतिः । विशेषणसाम्येनोदाहृतम् । उभयमयत्वेन यथा'निलूनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः
कर्णे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् । यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः
--
――――
किं किं कण्टकिभिः कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम् ॥' अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् । निर्लूनान्यलकानी त्यादिश्च कार्यसमारोपः । व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणं
यथा
८९.
विश्रान्तेः । प्रथममिति । एतद्भेदत्रयमस्या मूलभूतमित्यर्थः । उक्तं पुनः प्रकारपञ्चकमस्या अवान्तरभेदरूपम् । विशेषणसाम्यस्यैतद्भेदत्वात् । यद्यपि शुद्धकार्यसमारोपेऽपि विशेषणसाम्यमेवास्ति तथाप्यत्र शुद्ध एव कार्यसमारोप उद्रिक्ततया प्रतीयत इति तस्य पृथग्भेदत्वमुक्तम् । सर्वत्रेति भेदसप्तके । बहुप्रकारेति । लौकिकादीनां व्यवहाराणामानन्त्यात् । उदाहृतमिति उपोढरागेणेत्यादिना । क्रमेणेति यथोद्देशम् । मीमांसेत्यत्रोत्तरमीमांसा विवक्षिता ।
१. 'बहुप्रपश्ञ्चेति' ख.
१२
१. 'इत्थं शुद्ध' क. २. 'कुचान्' ख. ३. 'नीरसे' ख. ४. 'साम्यात्' ख. ५. 'इत्यादिभिश्च' ख.