________________
काव्यमाला। ___ अत्र हि पत्रलिपिकायस्थशब्देषु श्लेषगर्भ रूपकं द्विरेफमषीलवैरित्येतद्रूपकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धिः कार्या । तदेवं श्लिष्टविशेषणसमुत्थापितैका । साधारणविशेषणसमुत्थापिता धर्मकार्यसमारोपाभ्यां द्विभेदा । औपम्यगर्भविशेषणसमुत्थापितोपमा संकरसमासाभ्यां द्विभेदा । रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः ।
हारिभिः । अयि सायमिमाः पयोधरैः स्फुटरागाश्चलतारका दिशः ॥' अत्र 'स्फुटसं. ध्यातपकुङ्कमैः' इति पाठे संध्यातपकुङ्कमैरित्यौपम्यगर्भ विशेषणम् । साधारण्यसहचरितं यथा-'तन्वी मनोरमा बाला लोलाक्षी स्तबकस्तनी। विकासमेति सुभग भवदर्शनमात्रतः ॥' अत्र स्तबकस्तनीत्यौपम्यगर्भ विशेषणम् । शुद्धकार्यसमारोपसहचरितं यथा-'समारुरोहोपरिपादपानां लुलोठ पुष्पोत्कररेणुपुञ्जे । लताप्रसूनांशुकमाचकर्ष क्रीडन्वने किं न चकार चैत्रः ॥' अत्र प्रसूनांशुकमित्यौपम्यगर्भ विशेषणम् । केवलत्वं पुनरेतेषामेकदेशविवर्तिन्युपमैव यथा-'बभौ लोलाधरदलस्फुरद्दशनकेसरम् । भूविलासालिवलयं ललितं ललनामुखम् ॥' अत्र ललितत्वमुपमासाधकम् । समासान्तराश्रयात्समानविशेषणत्वं भवदपि नात्र समासोक्तेः प्रयोजकम् । एकदेशविवर्युपमामुखेनेवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । एवं दन्तप्रभेत्यादावपि ज्ञेयम् । दन्तप्रभाः पुष्पाणीवे. त्येवसमासे कृते उपमानभूताया लतायाः प्रतीतिसिद्धः समासान्तराश्रयेणागतायास्तत्प्रतीते. र्व्यर्थत्वात् । अप्रकृतागरणे हि कवेः संरम्भः तच्चानयैव सिद्धमिति किं समासोक्त्या । चिरंतनानुरोधात्पुनरत्र ग्रन्थकृता समासोक्तिरुक्ता । यत्तु 'यत्र समासोक्तावुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरुक्ता' इति वक्ष्यति तदपि चिरंतनानुरोधपरमेव । अन्यथा हि समानन्यायत्वादेकदेशविवर्तिनि रूपकेऽपि यत्र समानविशेषणत्वं योजयितुं शक्यं तत्रापि समासोक्तिरिति किं नोक्तम् । यत्तु नोक्तं तद्युक्तम् । रूपकमाहात्म्यात्प्रथममेव तत्प्रतीतिसिद्धरनन्तरं समासोक्तिमुखेनाप्रकृतप्रतीतेर्वैयर्थ्यात् । 'आह्लादिचन्द्रवदना स्फुरत्तारकमौक्तिका । घनान्धकारधम्मिल्ला राजते गगनस्थली ॥' इत्यादौ पुनरुपमायाः साधकाभावादेकदेशविवर्ति रूपकमेवेति न समासोक्तिभ्रमः कार्यः । न चैवमादावुपमारूपकयोः संदेहसंकरो न्याय्यः । तस्यालंकारसारकारादिभिनिराकृतत्वात् । समासोक्तिलक्षणावसरे किं रूपकनिरूपणेनेत्याशङ्कयाहअस्या इत्यादि । अस्याश्च यथोपपादितान्भेदान्संकलयति-तदेवमित्यादिना । भेदद्वंयमिति साक्षात्संदिह्यमानत्वेन वा । न विषय इति । यथोक्तोपपत्ते रूपक एव
१. 'शनैः' क. २. 'केवलत्वे पुनरेकदेशविवर्तिन्युपमा यथा' क. ३. 'वलितत्वं' क. ४. 'समासोक्तायां' क..