________________
अलंकारसर्वस्वम् । समासान्तरमहिम्ना लताप्रतीतिर्जेया । रूपकगर्भत्वेन तु समासान्तराश्रयणात्समानविशेषणत्वं भवदपि न समासोक्तेः प्रयोजकम् । एकदेशविवतिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । न च पूर्वदर्शितोपमासंकरविषये एष न्यायः । उपमासंकरयोरेकदेशविवर्तिनोरभावात् । तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् । अश्लिष्टं यथा
'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः।
धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्याततरं ररास ॥' अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टुपुरुषनिरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते । श्लिष्टं यथा
'मदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चय
निव किल बृहत्पत्रन्यस्तद्विरेफमषीलवैः । कुटिललिपिभिः के कायस्थं न नाम विसूत्रय
न्य॑धित विरहिप्राणेष्वायवयावधिकं मधुः ॥' संदेहसंकरः । तस्य समाश्रय उभयसमासग्रहणम् । तच्चैकस्मिन्नेव वाक्ये न संभवतीति कामचारेण तयोर्ग्रहणम् । संकरसमाश्रयेणाप्युपमासमासयोजने कृते यद्वदयमेवालंकारस्तद्वद्रूपकसमासयोजनेऽपि किमयमेव किमुतालंकारान्तरमित्याशङ्कयाह-रूपकेत्यादि । एतच्च साक्षादपि रूपकगर्भे समासे योज्यम् । समानन्यायत्वात् । यद्येवं तर्जुपमासमाश्रयेऽप्येकदेशविवयुपमामुखेनैवार्थान्तरप्रतीतेः किं नैतद्भवतीत्याशङ्कयाह-न चेत्यादि । एष इति रूपकोक्तः । अभावादिति उद्भटमतेन । यदाहुः-'न च रुद्रटस्येवोद्भटस्यैकदेशविवर्तिरूपकवदुपमासंकरावेकदेशिनौ स्तः ।' अतश्चैतत्तन्मताभिप्रायेणोक्तम् । ग्रन्थकृन्मते हि वक्ष्यमाणनीत्या तयोः संभवः । ननु यदि तयोर्ग्रन्थकृन्मते संभवस्तदौपम्यगर्भविशेषणोत्थापितः समासोक्तिप्रकारस्तर्हि न संभवति । तस्यैकदेशविवर्तिरूपकवंदेकदे. शविवर्तिभ्यामुपमासंकराभ्यामेवार्थान्तरप्रतीतिसिद्धर्वैयर्थ्यात् । नैतत् । यतोऽस्त्येव तावदौपम्यगर्भविशेषणहेतुकत्वं समासोक्तेः । किं त्वेतदन्यभेदसहचरितमेवास्या निमित्तता भजते न पुनः केवलम् । तथात्वे हि विशेषणानामौपम्यगर्भत्वे एकदेशविवर्तिन्या उपमायाः प्राप्तिः । तत्र लिष्टत्वसहचरितमेतद्यथा-'परिपिञ्जरितासिताम्बरैनिबिडैः कं न हरन्ति
१. 'वैयर्थ्यम्' ख. २. 'रूपकम्' ख. ३. 'किं कायस्थैः' ख. ४. 'व्यथित' ख. १. 'रीत्या' ख.२. 'अन्यस्यापि' ख.३. 'आरोपस्य गर्भत्वे' ख.४. श्लिष्टेन सह ख.