SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अपरित्यक्तखरूपयोनिशाशशिनो यकनायिकाख्यधर्मविशिष्टयोः प्रतीतेः। साधारण्येन यथा 'तन्वी मनोरमा बाला लोलाक्षी पुष्यहासिनी । विकासमेति सुभग भवदर्शनमात्रतः ॥' 'अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । तत्र च लतैकगामिविकासाख्यधर्मसमारोपः कारणम् । अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचारतो ज्ञेयः। एवं च कार्यसमारोपेऽपि ज्ञेया । इयं च समासोक्तिः पूर्वापेक्षया अस्पष्टा । औपम्यगर्भत्वेन यथा 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥' ___ अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन च कृते समासे पश्चादन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः । अत्रैव 'परीता हरिणेक्षणा' इति पाठे उपमारूपकसाधकबाधकाभावात्संकरसमाश्रयेण कृते योजने पश्चात्पूर्वव. निर्धारणे । नायकेति सरूपयोरेकशेषः । अपरित्यक्तस्वरूपयोरिति । रूपरूपितत्वे हि परित्यक्तं स्वस्वरूपं स्यात् । अत्रेति लताव्यवहारप्रतीतौ । ननु यदि लतैकगाम्येव विकासाख्यो धर्मस्तत्कथं प्रकृते संगच्छत इत्याशङ्कयाह-विकास इत्यादि । एतदेवान्यत्रापि योजयति-एवमित्यादिना । तदेवं साधारण्येन समासोक्तेर्विशेषणसाम्ये सत्यप्यप्रकृतसंबन्धि धर्मकार्यसमारोपमन्तरेण तद्व्यवहारप्रतीतिर्न भवतीति सिद्धम् । सुवेषत्वं प्रकृतार्थ एवानुगुणमित्युपमायाः साधकम् । अतश्च तत्समाश्रयः । समासान्तराश्रयणेनेति । यद्यप्यत्रोपमासमास एव स्थितस्तथाप्युपमानोपमेययोर्व्यत्ययादेव समासान्तरत्वमुक्तम् । पूर्वापेक्षयास्यान्यथात्वात् । अत्रैवेति दन्तप्रभेत्यादौ । उपमारूपकसाधकबाधकाभावादिति । परीतत्वस्य हि प्रकृताप्रकृतयोस्तथा नानुगुण्यमिति साधकत्वाभावः । तथा च न विगुणत्वमिति बाधकत्वाभावः । अतश्चैकपक्षाश्रयाभावादुपमारूपकयोः १. 'अपरित्यक्तयोः' क. २. 'शशिनो यकताख्यधर्म' क. ३. 'नियतस्य' ख. ४. 'उपचरितः' ख. ५. 'ज्ञेयम्' क. ६. 'संकराश्रयेण' क. १. 'तत्रेति' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy