________________
अलंकार सर्वस्वम् ।
८५
अप्रस्तुतनिष्ठं तु समासोक्तिविषयः । तत्र च निमित्तं विशेषणसाम्यम् । विशेषस्यापि साम्ये षप्राप्तेः । विशेषणसाम्याद्धि प्रतीयमानमप्रस्तुतं प्रेस्तुतावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वं च व्यवहारसमारोपो न रूपसमारोपः । रूपसमारोपे । त्ववच्छादितत्वेन प्रकृतस्य तद्रूपरूपित्वादेव रूपकम् । ततश्च विशेषणसाम्यं ष्टितया साधारण्येनौपम्यगर्भत्वेन च भावात्रिधा भवति । तत्र श्लिष्टतया यथा -
'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥' अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः ।
गुपादानेनेति । प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्चैतदिति वाच्यम् । अत्र चाप्रस्तुतस्य किं हेतुकं गम्यत्वमित्याशङ्कयाह — तत्र चेत्यादि । तत्रेत्यप्रस्तुतस्य गम्यत्वे । विशेषणानां चात्र बहुत्वमेव विवक्षितमिति न वाच्यम् । 'श्वसनविषमा रात्रिज्योत्स्ना तरङ्गितविभ्रमा शशिमणिभुवो बाष्पायन्ते निमीलति पद्मिनी । उपचिततमोमोहा भूमिर्व्यनक्ति विवर्णतां तदिति गहने दर्श दर्श कथं सखि जीव्यते ॥' इत्यत्र विशेषैणबहुत्वाभा - वेऽपि समासोक्तेः सद्भावात् । अतश्च विशेषणानां साम्यादिति न सूत्रणीयम् । अबहुत्वे तस्याव्याप्तेः । विशेषणसाम्यमपि कस्मादत्र हेतुत्वं भजत इत्याशङ्कयाह - विशेषणेत्यादि । अप्रस्तुतमिति न पुनरप्रस्तुतधर्मा एव । नह्यन्यधर्मिसंबन्धिनो धर्माः स्वधर्मि - णमन्तरेणान्यत्रावतिष्ठन्ते । नह्यनायके नायकधर्माणामन्वयो युज्यते । अन्यधर्माणामन्यत्रान्वयासंभवात् । अत एवान्यरोप्यमाणोऽन्यव्यवहारोऽन्यत्र न संभवतीति तदविनाभावात्स्वव्यवहारिणमाक्षिपतीत्याक्षिप्यमाणेनाप्रस्तुतेन धर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यते न पुनरौच्छाद्यते । तथात्वे ह्यप्रस्तुतेन प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमारोप: । अत एवाह - प्रस्तुतावच्छेदकत्वेनेति । अत एवाप्रस्तुतस्य गम्यत्वे इति सूत्रितम् । एवं समासोक्तौ व्यवहारसमारोपादप्रस्तुतेन प्रस्तुतस्य वैशिष्टयलक्षणमवच्छेदकत्वं विधीयते । रूपके तु रूपसमारोपाद्रूप रूपितत्वाख्यमाच्छादकत्वमित्यनयोर्भेदः । तेन विशेषणानां साम्यादप्रस्तुतधर्मावच्छेद इत्यपास्यास्मलक्षणानुगुण्येनैव विशेषणसाम्यादप्रस्तुतावच्छेदः समासोक्तिरित्येव सूत्रणीयम् । अतिशयोक्त्याशङ्का पुनरत्र निष्प्रमाणिकैव । विषयस्योपादानाद्विषयिणश्चानुपादानात् । तदिति अप्रस्तुतस्य गम्यत्वे निमित्तम् । तत्रेति
1
१. 'समासोक्तेर्गोचरम् ' क. २. 'प्रस्तुतस्य' ख ३ 'अवच्छेदकत्वाच्च' क. १. 'बाहुल्यमेव' ख. २. 'विशेषणासद्भावेऽपि ' ख. ३. 'धर्माणां च' ख. ४. 'वया - सद्भावात्' ख. ५. 'संभवेदिति' क . ६. 'आच्छिद्यते' ख. ७. 'एव प्रस्तुतस्य' क- ख.