SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। 'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धा ॥ इत्यादौ विनोक्तिरेव । तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतेः । इयं च परस्परविनोक्तिभङ्गया चमत्कारातिशयकृत् । यथोदाहृते विषये । द्वितीया यथा 'मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ॥' अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्गयोक्तः। सैषा द्विधा विनोक्तिः। अधुना विशेषणविच्छित्त्याश्रयेणालंकारद्वयमुच्यते । तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः। इह प्रस्तुताप्रस्तुतानां क्वचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यम् । वाच्यत्वं च श्लेषनिर्देशभङ्गया पृथगुपादानेन वेत्यपि द्वैविध्यम् । एतविभेदमपि श्लेषालंकारस्य विषयः । गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः यथा सहशब्दं विनापि सहाथै तृतीयास्ति तथा विनाशब्दं विनापि द्वितीयादीनां विनार्थे सद्भावोऽस्ति।तथापि वाक्यार्थपर्यालोचनासामर्थ्यात्तदर्थः पर्यवस्यतीत्यस्य भावः । सहशब्दं विनापि सहार्थविवक्षा यथा-'विवृण्वता सौरभरोरदोषं बन्दिव्रतं वर्णगुणैः स्पृशन्त्या। विकस्वरे कस्य न कर्णिकारे घ्राणेन दृष्टेर्ववृधे विवादः॥'अत्र घ्राणेन सहेति तत्प्रयोग विना तत्प्रतीतावेव विश्रान्तः। एवं चेति । यस्माद्विनाशब्दं विनापि तदर्थविवक्षा भवतीत्यर्थः । यथोदाहृत इति निरर्थकमित्यादौ । यथा वा-हंसाण सरेहि विणा सराण सोहा विणा ण हंसेहिं । अण्णोण्णं चिअ एए अप्पाणं णवर गरुएन्ति ॥' द्वितीयेति शोभनत्वनिबन्धनोक्तिः । तत्रेत्यलंकारद्वयमध्यात् । आदाविति प्रधानतया । अस्या हि विशेषणमात्रावष्टम्भात्परिकराद्विशेषणसाम्यावष्टम्भत्वेन विशिष्टत्वम् । विशेषणेत्यादि । अस्याश्चालंकारान्तरेभ्यो विभागं दर्शयितुमुपक्रमते-इहेत्यादिना। वाच्यत्वं चात्र द्वयोः प्रस्तुतयोरप्रस्तुतयोःप्रस्तुताप्रस्तुतयोश्च भवति । गम्यत्वं पुनः क्वचित्प्रस्तुतस्य क्वचिच्चाप्रस्तुतस्य । प्रस्तुताप्रस्तुतयोस्तु न भवति । ताद्रूप्येण वस्तुसद्भावाभावात् । श्लेषनिर्देशभङ्गयेति । प्रस्तुतयोरप्रस्तुतयोश्च । पृथ १. 'द्वैधम्' क. २. 'विषयम्' क. १. 'बाह्यार्थ' ख. २. 'लोभ' क; 'रोष' ख. रोरशब्दो दारिद्यवाचकः. श्रीकण्ठच. रितस्थमिदं पद्यम्. ३. 'तत्प्रतीतेरविश्रान्तेः' ख. ४. 'वष्टम्भत्वे श्लिष्टत्वम्' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy