________________
अलंकारसर्वस्वम्। वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गव
प्रौढाहंकृतिकन्दलेन च समं तेंद्भग्नमैशं धनुः ॥' सहोक्तिप्रतिभटभूतां विनोक्ति लैक्षयतिविना कंचिदन्यस्य सदसत्त्वाभावो विनोक्तिः ।
सत्त्वस्य शोभनत्वस्य भावः शोभनत्वम् । एवमसत्त्वस्याशोभनत्वस्य भावोऽशोभनत्वम् । ते द्वे यत्र कस्यचिदसंनिधानान्निबध्यते सा द्विधा विनोक्तिः । अत्र च शोभनत्वाशोभनत्वसत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् । एवं च तदन्यनिवृत्तौ विधिरेव प्रकाशितो भवति । आद्या यथा_ 'विनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥' अत्र विनयाद्यसंनिधिप्रयुक्तश्रीविरहाद्यभिमानमुखेनाशोभनत्वमुक्तम् । अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथंचिन्निमित्तीभवति । यथा सहोक्तौ सहार्थविवक्षा । एवं च तदनन्तरमेतल्लक्षणम् । तदेवाह-विना कंचिदित्यादि । एलदेव व्याचष्टे-सत्त्व. स्येत्यादिना । कस्यचिदिति यत्र यादृशो विवक्षित[स्त]स्येति । ननु चात्र सत्त्वासत्त्वयोविधिमुखेनैव वाच्यत्वे किमिति प्रतीतिवैषम्यदायिना निषेधमुखेन निर्देशः कृत इत्याश
याह-अत्र चेत्यादि । तच्छब्देन सत्त्वासत्त्वयोः प्रत्यवमर्षः । अन्यनिवृत्तिप्रयुक्तेन तन्निवृत्तिख्यापनेनापि किं भवतीत्याशङ्कयाह-एवं चेत्यादि । अन्यस्य कस्यचिदनिवृत्तौ सत्त्वमसत्त्वमेव वा भवतीत्यर्थः । आद्येति असत्त्वनिबन्धनोक्तिः । का श्रीन काचिच्छीरिति श्रियो विरहोऽसद्भावः । विनयासद्भावेऽपि श्रियोऽसद्भावोऽस्तीत्येतदभिधानं श्रि. योऽसत्त्वे पर्यवस्यतीति विनयनिवृत्तिप्रयुक्तं श्रियोऽसत्त्वमुक्तम् । एवं विनयस्यानिवृत्तौ श्रियः सत्त्व एव विधिः प्रकाशितो भवतीति विनय एव भरबन्धः कार्यः । एवमन्यत्रापि ज्ञेयम् । अन्ये चात्र वास्तवत्वं मन्यमानाः 'तस्याः शैत्यं विना ज्योत्स्ना पुष्पर्द्धिः सौरभं वि. ना । विनोष्ण्यत्वं च हुतभुक्त्वां विना प्रतिभासते ॥' इत्यत्र विनोक्त्यलंकारत्वमाहुः । अत्र हि ज्योत्स्नादीनां शैत्यादिना नित्यमविनाभावेऽपि विनाभाव उपनिबद्धः । यदाहालंकारभाष्यकार:-"नित्यसंबद्धानामसंबन्धवचनं विनोक्तिः' इति विनोक्तिरुपसंख्यास्यते” इति । ग्रन्थकृता पुनरियं चिरंतनलक्षितत्वालक्षिता। यथाकथंचिदिति । यद्यपि
१. 'सह' क. २. 'भमं तदैशं' ख. ३. 'दर्शयति' क. ४. 'किंचित्' क. ५. 'तदनिवृत्तौ क.
१. 'विरहसद्भावः' क.