________________
८२
काव्यमाला ।
श्लेषभित्तिकाध्यवसायरूपा यथा - 'अस्तं भास्वान्प्रयातः सह रिपुभिरयं संहियन्तां बलानि ।' अत्रास्तं गमनं श्लिष्टम् । अस्तमित्यस्योभयार्थत्वात् ।
तदन्यथारूपा यथा— 'कुमुदवनैः सह संप्रति विघटन्ते चक्रवाक मिथुनानि ।' अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् । एतद्विशेषणपरिहारेण सहोक्तिमात्रं नालंकारः । यथा - ' अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु' इत्यादौ । एतान्येव कर्तृसाहित्ये उदाहरणानि । कर्मसाहित्ये यथा
'जनो मृत्युना सार्धं यस्याजौ तारकामये । चक्रे चक्राभिधानेन प्रेष्येणाप्तमनोरथः ॥'
अत्र करोतिक्रियापेक्षया युजनस्य मृत्योश्च कर्मत्वम् । एषा च मालयापि भवन्ती दृश्यते । यथा
'उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं
भूपानां जनकस्य संशयधिया साकं समास्फालितम् ।
कत्वेन स्थितेति शेषः । अत्रापराधानां शाब्दो गुणभावः । वस्तुतस्तु प्राधान्यं तेषामेव । प्रतिपाद्यत्वात् । एवमन्यत्र ज्ञेयम् । 'क्षयमेति सा वराकी स्नेहेन समं त्वदीयेन' इत्यस्यार्धम् । 'कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहभारानश्रून्मित्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः । मार्गन्तो ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्गैः' इत्यस्याद्यं पादत्रयम् । 'सह कमलैर्ललनानां मानः संकोचमायाति' इत्यस्यार्धम् । एतद्विशेषणपरिहारेणेति अतिशयोक्त्यनुप्राणनमन्तरेण । 'द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ' इति द्वितीयमर्धम् । एतानीति समनन्तरोक्तानि । यमापेक्षया युजनस्यानन्तरमाप्तमनोरथत्वमित्यादि पश्चाद्भावेन क्रमिकयोस्तुल्यकालत्वेनोक्तिः । यथा वा - 'भाग्यैः समं समुत्पन्नं प्रजाभिः सह लालितम् । वर्धितं सुकृतैः सार्धमैर्णोराजमसूत सा ॥' अत्र समुत्पत्त्य - नन्तरं तद्भाग्यानामुत्पत्तिरिति क्रमिकयोः समकालत्वम् । अस्याश्च शुद्धसामान्यरूपत्वं यथा-'मलआणिलेण सह सोरह वासिएण दइआणम् । वडन्ति बहलसोमालपरिमला सासणिउरम्बा ॥' अत्र सौरभपरिमलयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावो यथा- - ' दिनअरअरणिउरम्बा कणआअलकडअरेणुविष्फुरिआ । विअसन्ति परिमलभरो - ब्भडेहि ँ कमलाकरेहि ँ समम् ॥' अत्र कनकाचलकटकरेणुविच्छुरितत्वस्य परिमलभरोद्भटत्वं बिम्बप्रतिबिम्बत्वेन निर्दिष्टम् । प्रतिभटभूतामिति प्रतिपक्षभूताम् । अत एवै
१. 'सह' क. २. 'कर्णराजं' ख.
"