SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ अलंकार सर्वस्वम् । ८१ उपमानोपमेययेोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसंबन्धे सहोक्तिः । भेदप्राधान्य इत्येव । गुणप्रधानभावनिमित्तकमत्र भेदप्राधान्यम् । सहार्थप्रयुक्तश्च गुणप्रधानभावः । उपमानोपमेयत्वं चात्र वैवक्षिकम् । द्वयोरपि प्राकरणिकत्वादप्राकरणिकत्वाद्वा सहार्थसामर्थ्याद्धि तयोस्तुल्यकक्षत्वम् । तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् । अर्थाच्च परिशिष्टस्य प्रधानत्वादुपमेयत्वम् । शाब्दश्चात्र गुणप्रधानभावः । वस्तुतस्तु विपर्ययोऽपि स्यात् । तत्र नियमेनातिशयोक्तिमूलत्वमस्याः । सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च । अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा । साहित्यं चात्र कर्त्रादिनानाभेदं ज्ञेयम् । तत्र च कार्यकारणप्रतिनियमविपर्ययरूपा यथा— 'भवदपराधैः सार्धं संतापो वर्धते तरामस्याः ।' अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः । रूपत्वस्यानुगामित्वम् । वस्तुप्रतिवस्तुभावे पुनर्ग्रन्थकृतैवोदाहृतम् - दिदृक्षव इत्यादि । अत्र मनोहरत्वरम्यत्वयोः शुद्धसामान्यरूपत्वम् । पक्ष्मलताविलासविकस्वरयोश्च बिम्बप्रतिबिम्बभावः । उपमानेत्यादि । किं हेतुकं चात्र भेदप्राधान्यमित्याशङ्कयाह – गुणेत्यादि । गुणप्रधानभावोऽपि किं हेतुक इत्याह- सहार्थेत्यादि । एकस्य प्रधानभूतविभक्तिनिर्देशादन्यस्य च विधिविभक्तिनिर्देशात् । वैवक्षिकमिति न पुनर्वास्तवम् । उपमानोपमेयत्वं हि द्वयोस्तुल्यकक्षत्वे भवति तच्चात्र किं निमित्तकमित्याशङ्कयाह - सहार्थेत्यादि । परिशिष्टस्येति प्रथमान्तस्य । शाब्द इति न पुनरार्थः । वस्तुतो विपर्ययस्यापि संभवात् । एवं गुणप्रधानभावनिमित्तकं भेदप्राधान्यमपि शाब्दमेवात्र ज्ञेयम् । . वस्तुतो हि सादृश्यस्यैव पर्यवसानाद्भेदाभेदयोस्तुल्यत्वेनैव प्रतीतिः । तस्माच्छाब्दमेव भेदप्राधान्यमाश्रित्येहास्या वचनम् । विपर्यय इति । प्रधानविभक्त्या निर्दिष्टस्याप्राधान्यं गुणविभक्त्या च निर्दिष्टस्य प्राधान्यम् । नियमेनेति । अनेनातिशयोक्त्यनुप्राणनमन्तरेणालंकारत्वमेवास्या न भवतीति ध्वनितम् । सेत्यतिशयोक्तिः । कार्यकारणयोः प्रति नियमस्य विपर्ययस्तुल्यकालत्वादिनोक्तेः । (अथ च कार्यकारणवत्प्रतिनियमस्य क्रमस्य वि-: पर्ययस्तुल्यकालत्वादिनोक्ते: 1) अन्यथेत्यश्लेषरूपः । तदेवमस्या अतिशयोक्तिभेदचतुयमनुप्राणकम् । कर्त्रादीति आदिशब्दात्कर्मादयः । तत्रेति निर्धारणे । अस्यामनुप्राण१. 'संबन्धः' क. २. 'गुणभावात्' ख. ३. 'आश्चर्यपरिशिष्टस्य' ख. ४ पुस्तकद्वये • straरार्ध मूले लिखितम्. ११
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy