Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 28
________________ २२ काव्यमाला। 'यो यः पश्यति तन्नेत्रे रुचिरे वनजायते । तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥' इदं सार्थकत्वे । एवमन्यज्ज्ञेयम् ।। शब्दार्थपौनरुक्त्यं प्ररूढं दोषः ॥ प्ररूढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् । यदाहुः-'शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ।' इति । ग्यमिति चिरंतनालंकारवन विभज्य लक्षितमिति भावः । एवं चित्रेऽपि ज्ञेयम् । अन्यदिति प्रकारद्वयम् । तत्रानर्थकं यथा-'सरसमन्थरतामरसादरभ्रमरसजलया नलिनी मधौ । जलधिदेवतया सदृशीं श्रियं स्फुटतरागतरागरुचिर्दधौ ॥' अत्र तरागेत्यनर्थकम् । अनर्थकत्वसार्थकत्वयोर्यथा-'साहारं साहारं साहारं मुणइ सजसाहारम् । सं ताणं संताणं संताणं मोहसंताणम् ॥' अत्र सजसाहारमित्यनर्थकम् । अन्यानि तु सार्थकानीति न कश्चिद्दोषः । इदं च स्थाननियममन्तरेण न भवति । यदुक्तम्-‘पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्' इति । अत एव स्थाननियमाद्यमकमित्यस्यान्वर्थमभिधानम् । स च स्थाननियमो वैवक्षिको न वास्तवः । यथा-'मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभि श्रियम् । अभृत वारितवारिदविप्लवां स्फुटितताम्रतताम्रवणं जगत् ॥' अत्राक्षरद्वयानन्तरं यमकविन्यासात्स्थानस्य नियतत्वम् । यथा वा'छिन्याद्भयाति तव कार्तिकेयः शशी जितो येन स कार्तिकेयः । उत्खातदन्तो गणनायकस्य स्वामी यदन्यो गणनाय कस्य ॥' अत्र चार्धद्वये यमकद्वयमिति स्थाननियमो द्विधैवेति नास्यालंकारस्य क्षतिः काचित् । अतश्च 'श्रुतरसिक तरसिकलितरुकलितरुजालहरिजालहरिणतमः (2)। हरिणतमश्च ततस्तव ततस्तवः स्याद्यशोराशिः ॥' इत्यत्र सत्त्वेऽपि स्वरव्यञ्जनसमुदायपौनरुक्त्यस्य स्थाननियमाभावाद्यमकाभासोऽयं वृत्त्यनुप्रासः । प्ररूढमिति । यर्थाभासनं विश्रान्तेः । यथा-'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तमः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥' अत्रेन्दुरिति । अत्रिनेत्रक्षीरोदजन्मत्वादिन्दोद्वित्वान्नैतत्प्ररूढमिति न कार्यम् । कविसमये तथात्वस्याप्रतीतेः । आहुरित्याक्षपादाः । अन्यत्रानुवादादिति । अनुवादे हि शब्दार्थयोः पुनर्वचनं क्रियमाणं न दोषाय । अक्रियमाणं पुनर्दोषाय भवतीति भावः । यथा-'उदेति रक्तः सविता रक्त एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥' अत्र रक्त इति । 'शिरः शार्व स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोधो गङ्गावद्वयमुपगता नूनमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥' अत्र पौनरुक्त्येऽपि शब्दस्या १. 'श्रुतरसिक तरसिकलितं तरुकलिततरजालहरिणतमः' ख. २. 'भासमान' ख.

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218