Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला ।
ख्यायोगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात् । यथा-'क्वचिजटावल्कलावलम्बिनः कपिलादावाग्नयः' इत्यादौ । न हि कपिलमुनेर्बहुत्वम् ।
'भ्रमिमरतिमलसहृदयतां प्रलयं मूी तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥' इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव । जलदभुजगजमिति रूपकसाधकमिति । पूर्व सिद्धत्वाभावान्न तन्निबन्धनम् । विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः ।
आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः ।।
आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति । आगमानुगमविगमख्यात्यभावात्सांरूपात् । अतश्चारोप्यमाणस्य कपिलमुनर्बहुत्वायोगाद्विषयसंख्यत्वम् । श्लिष्टतानिबन्धनस्य परम्परितस्य श्लेषाद्वैलक्षण्यं, द्योतयितुमाह-भ्रमिमिति । प्रभावित इति । प्रथममेव प्रतीतिगोचरीकृत इत्यर्थः । पूर्व सिद्धत्वाभावादिति । रूपकस्य श्लेषहेतुत्वात् । तन्निबन्धनमिति रूपकनिबन्धनम् । इतिशब्दो हेतौ । अतश्च श्लेष एवात्रालंकारो न परम्परितं रूपकमित्यत्र तात्पर्यम् । चिन्त्यं चैतत् । यतः श्लेषस्तावद्वाच्ययोर्द्वयोः प्रकृतयोरप्रकृतयोः प्रकृताप्रकृतयोश्च भवति । अत्र च न द्वयोः प्रकृतत्वं नाप्यप्रकृतत्वम् । वर्षासमये जलदस्येव जलस्य वर्णनीयत्वात् । प्रकृताप्रकृतयोश्च विशेषणसाम्य एव श्लेषो भवति इह तु विशेष्यस्यापि साम्यमिति शब्दशक्त्युत्थितस्य ध्वनेरयं विषयो न श्लेषस्य । अतश्च नात्र श्लेषालंकारः । नापि ध्वनिः । जलदभुजगजमिति रूपकमाहात्म्याच्छब्दशक्त्या गरलार्थस्याभिधानात् । एवमत्र श्लिष्टशब्दनिबन्धनं जलदभुजगजमिति । रूपकान्तरेणापि गरलार्थों यदि प्रतीयते तत्स ध्वनेविषयः स्यादित्युक्तम् । स्थिते तु जलदभुजगजमिति रूपके तन्माहात्म्यादेव विषशब्दे श्लिष्टशब्दनिबन्धनं रूपकम् । अन्यथा हि जलदभुजगजमिति रूपकं व्यर्थ स्यात् । तेन विना हि गरलार्थः प्रतीयत इत्यलं बहुना । आरोप्यमाणस्येत्यादि । आरोप्यारोपविषयभावसाम्येऽपि रूपकाद्वैलक्षण्यं दर्शयन्नेतदेव व्याचष्टे-आरोप्यमाणमित्यादिना । प्रकृतोपरञ्जकत्वेनेति। यदुक्तम्-विषयिणा विषयस्य रूपवतः करणाद्रूपकमिति । प्रकृतात्मतयेति । प्रकृताङ्गतयेत्यर्थः । उपयोग इति । तेन विना प्रकृतार्थस्यानिष्पत्तेः । परिणमतीति । प्रकृतमप्रकृतव्यवहारवि. शिष्टतयावतिष्ठते । प्रकृतस्वरूपमात्रावस्थाने प्रकरणानिष्पत्तेः । एवमत्र प्रकरणोपयो
१. 'रूपकमित्यनुचिन्त्यं चैतत्' क.

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218