SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । ख्यायोगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात् । यथा-'क्वचिजटावल्कलावलम्बिनः कपिलादावाग्नयः' इत्यादौ । न हि कपिलमुनेर्बहुत्वम् । 'भ्रमिमरतिमलसहृदयतां प्रलयं मूी तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥' इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव । जलदभुजगजमिति रूपकसाधकमिति । पूर्व सिद्धत्वाभावान्न तन्निबन्धनम् । विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः । आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः ।। आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति । आगमानुगमविगमख्यात्यभावात्सांरूपात् । अतश्चारोप्यमाणस्य कपिलमुनर्बहुत्वायोगाद्विषयसंख्यत्वम् । श्लिष्टतानिबन्धनस्य परम्परितस्य श्लेषाद्वैलक्षण्यं, द्योतयितुमाह-भ्रमिमिति । प्रभावित इति । प्रथममेव प्रतीतिगोचरीकृत इत्यर्थः । पूर्व सिद्धत्वाभावादिति । रूपकस्य श्लेषहेतुत्वात् । तन्निबन्धनमिति रूपकनिबन्धनम् । इतिशब्दो हेतौ । अतश्च श्लेष एवात्रालंकारो न परम्परितं रूपकमित्यत्र तात्पर्यम् । चिन्त्यं चैतत् । यतः श्लेषस्तावद्वाच्ययोर्द्वयोः प्रकृतयोरप्रकृतयोः प्रकृताप्रकृतयोश्च भवति । अत्र च न द्वयोः प्रकृतत्वं नाप्यप्रकृतत्वम् । वर्षासमये जलदस्येव जलस्य वर्णनीयत्वात् । प्रकृताप्रकृतयोश्च विशेषणसाम्य एव श्लेषो भवति इह तु विशेष्यस्यापि साम्यमिति शब्दशक्त्युत्थितस्य ध्वनेरयं विषयो न श्लेषस्य । अतश्च नात्र श्लेषालंकारः । नापि ध्वनिः । जलदभुजगजमिति रूपकमाहात्म्याच्छब्दशक्त्या गरलार्थस्याभिधानात् । एवमत्र श्लिष्टशब्दनिबन्धनं जलदभुजगजमिति । रूपकान्तरेणापि गरलार्थों यदि प्रतीयते तत्स ध्वनेविषयः स्यादित्युक्तम् । स्थिते तु जलदभुजगजमिति रूपके तन्माहात्म्यादेव विषशब्दे श्लिष्टशब्दनिबन्धनं रूपकम् । अन्यथा हि जलदभुजगजमिति रूपकं व्यर्थ स्यात् । तेन विना हि गरलार्थः प्रतीयत इत्यलं बहुना । आरोप्यमाणस्येत्यादि । आरोप्यारोपविषयभावसाम्येऽपि रूपकाद्वैलक्षण्यं दर्शयन्नेतदेव व्याचष्टे-आरोप्यमाणमित्यादिना । प्रकृतोपरञ्जकत्वेनेति। यदुक्तम्-विषयिणा विषयस्य रूपवतः करणाद्रूपकमिति । प्रकृतात्मतयेति । प्रकृताङ्गतयेत्यर्थः । उपयोग इति । तेन विना प्रकृतार्थस्यानिष्पत्तेः । परिणमतीति । प्रकृतमप्रकृतव्यवहारवि. शिष्टतयावतिष्ठते । प्रकृतस्वरूपमात्रावस्थाने प्रकरणानिष्पत्तेः । एवमत्र प्रकरणोपयो १. 'रूपकमित्यनुचिन्त्यं चैतत्' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy