SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । 'सौजन्याम्बुमरुस्थली सुचरितालेख्याभित्तिर्गुण ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा । यैरेषा हि दुराशया कलियुगे राजावलिः सेव्यते तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥' अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गत्वेऽपि क्वचित्वतोऽसंभवत्संन्दालोए हसिअं कुमुएण सुरहिगन्धोग्गारम् ॥' अत्र कुमुदस्य श्लिष्टत्वम् । एकदेशविवर्ति यथा-'यत्तारामौक्तिकार्घप्रकरपुलकितं चन्द्रिकाचन्दनाम्भोदिग्धं सप्तर्षिहस्तस्थितकरकपयोधौतमाकाशलिङ्गम् । तोयाधारे प्रतीचि च्युतवति दिनकृद्विम्बनिर्माल्यपने तस्या_पुण्डरीकं व्यधित हिमकरं सत्वरं मूर्ध्नि कालः ॥' अत्र कालविषये पूजकादिरारोप्यमाणो न शाब्द इत्येकदेशविवर्तित्वम् । तोयाधारस्य समुद्रनिर्माल्योदकभाण्डवाचकत्वाच्छुिष्टत्वम् । क्वचिच्चाभेदमेव द्रढयितुं विषयिणो निषेधपूर्वमारोप्यमाणत्वेन तदीयस्य वा भेदहेतोर्धर्मस्य हानिकल्पनेनाधिक्येन वा दृढारोपत्वेनापीदं दृश्यते । क्रमेण यथा-'कलिप्रिया शश्वदपालिताज्ञावज्ञां गुरुज्ञातिषु दर्शयन्ती । जाया निजा या ननु सैव कृत्या कृत्या न कृत्या सरलस्य धार्मेः ॥' अत्र कृत्या निषेधपूर्व जायायामारोपिता । तनिषेधेन हि जायाया कृत्यया दायेन साम्यं प्रतीयते । कृत्या तथा न स्वकर्मणि व्याप्रियते । यथेयं तत्कर्मणीति ह्यत्र वाक्यार्थः । अत्र च यदन्ये विशेषालंकारमाहुस्तदभेदालंकारनिराकरणादेव निराकृतमिति न पुनरायस्यते । हान्या यथा-'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः॥' अत्रातैलपूरेण हानिकल्पनम् ।आधिक्येन यथा-'तुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा । अपि वा जंगमं तीर्थे धर्मो वा मूर्तिसंचरः ॥' अत्र तुरीयत्वादेर्धर्मस्याधिक्यम् । 'दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥' इत्यत्रापि दृढारोपमेव रूपकं ज्ञेयम् । अत्र हि कृपणस्य कृपाणस्येति समुच्चीयमानत्वेन निर्देशाच्छाब्दस्यारोपस्याप्रतीतेरप्याकारमात्रेण भेदस्योक्तेर्वाक्यार्थपर्यालोचनमाहात्म्यात्परिशिष्टसमस्तधर्मान्तरसद्भावाभ्यनुज्ञानात्पर्यवसाने दायें न विषयविषयिणोरभेदप्रतिपत्तिः । सैव च रूपकसतत्त्वमिति पूर्वमेवोक्तम् । अन्येऽपि भेदाः स्वयमेवाभ्यूह्योदाहार्याः । वैधयेणापीति । न केवलं साधणेत्यर्थः । अस्य च विच्छित्तिविशेषान्तरं दर्शयितुमाह-अत्रेत्यादि । आविष्टलिङ्गत्वेऽपीत्यनेन धर्मिणः स्वरूपमात्रपर्यवसितत्वेऽपि धर्मान्तरसंबन्धिनः संख्या त्मनो धर्मान्तरस्यापि स्वीकार इत्यावेदितम् । असंभवत्संख्यायोगस्येति । यद्यप्येकादिव्यवहारहेतु: संख्येति नीत्या एकस्मिन्नपि द्रव्ये तद्योगः संभवति तथाप्यनेकद्रव्यवतित्वाद्यभिप्रायेणैतदुक्तम् । प्रत्येकमारोपादिति अयमग्निः कपिलोऽयमग्निः कपिल इत्येवं १. 'धत्सेः' ख. २. 'हान्या यथा' ख-पुस्तके नास्ति. ३. 'अप्रतीतत्वेऽपि' ख. ४. 'पूर्वोक्तमेवोक्तम्' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy