SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३८ काव्यमाला | 'किं पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न वा वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् | वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥' अत्र वक्रेण रूपणमहेतुकम् पीयूषेणाधरामृतस्य श्लिष्टशब्द रूपणम् । 'विद्वन्मानसहंस वैरिकमलासंकोचदीप्तयुते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिश्ञ्चमुच्चैः क्रियाः ॥' अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति लिष्टशब्दं मालापरम्परितम् । 'यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाथम् । जन्मजरामरणार्णवतरणतरण्डं हराङ्कियुगम् ॥' 'पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो भग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यानदानाम्बुपट्टः । सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खड्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ॥' अत्र क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽन्येऽपि भेदा लेशतः सूचिता एव । इदं वैधर्म्येणापि दृश्यते । यथा केवलपरम्परितम् । विद्वदित्यादिहंसरूपणामाहात्म्यान्मानसरूपणेति परम्परितम् । एवमर्णवरूपणा तरण्डारोपस्य हेतुरिति परम्परितम् । पर्यङ्क इत्यत्रैकस्य बहव आरोपा इति मालापरम्परितम् । अनेकस्य तु यथा - 'श्रीः श्रीधरोरः स्थलखेन्दुलेखा श्रीकण्ठकण्ठाभ्रतडिच्च गौरी । शक्राक्षिपद्माकरराजहंसी शची च वो यच्छतु मङ्गलानि ॥' अत्र बहूनामनेकारोपात्परम्परितमाला । एवमादय इति । परम्परितमप्येकदेशविवर्तीत्येवंप्रकाराः । सूचिता इति । एतच्च दर्शनादेव । ततश्च सावयवं द्विविधमपि श्लिष्टं दृश्यते । तत्र समस्तवस्तुविषयं यथा - ' - 'विहडन्तोद्वदलउडं फुरन्तदन्ताकारबहलकेसरपअरम् । पहरिमच१. 'विघटदोष्ठदलपुटं स्फुरद्दन्ताकारबहल केसरप्रकरम् । ...... चन्द्रालोके हसितं कुमुदेन सुरभिगन्धोद्गारम् ॥' इति च्छाया.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy