SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वखम् । दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये। उद्यत्कठोरपुलकाङ्करकण्टका... र्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥' 'पीयूषप्रसूतिर्नवा मखभुजां दानं तमोलूनये स्वर्गङ्गाविमनस्ककोकवदनस्रस्ता मृणालीलता । द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ॥' 'विस्तारशालिनि नभस्तलपत्रपात्रे कुन्दोज्ज्वलप्रंभमसंचयभूरिभक्तम् (१)। गङ्गातरङ्गघनमाहिषदुग्धदिग्धं 'जग्धं मया नरपते कलिकालकर्ण ॥' 'आभाति ते क्षितिभृतः क्षणदाप्रभेयं निस्त्रिंशमांसलतमालवनान्तलेखा । । इन्दुद्विषो युधि हठेन तवारिकीर्ती रानीय यत्र रमते तरुणः प्रतापः ॥' क्षितिभृत इत्यत्र श्लिष्टपदं परम्परितम् । . वाणी विपाशा मतिश्चेतो याति नदीनतां कलयते शोणत्वमस्याधरः। चारित्रं ननु पापसू. दनमहो मामेष तीर्थाश्रयः स्नातुं वाञ्छति भूपतिः परमितीवोष्णोदकं वल्गति ॥' अत्रानेकेषां श्लिष्टा अनेक आरोपिता इति श्लिष्टार्थरूपकमाला। आभातीत्यत्र समासोक्तिमन्ये मन्यन्त इत्युदाहरणान्तरेणोदाहियते । यथा-'भवत्संवित्पुष्पश्रियमनुपमामोदमधुरां समुचिन्वन्नानाविषयवनराजीविकसिताम् । भवोद्याने भक्त्या तव सह विशेषोल्लसितया विहन्तुं व्यमः स्यामनुसृतविवेकप्रियसखाः ॥' अत्र भक्तेर्नायिकारोपस्याशाब्दत्वादेकदेशविवर्तित्वम् । 'पीयूषस्याधरामृतेन श्लिष्टशब्दनिरूपणम्' इति लेखककल्पितोऽयमपपाठो ज्ञेयः । अधरामृतस्य हि पीयूषेण निरूपणमत्र स्थितम् । अतश्च 'अधरामृतस्य पीयूषेण श्लिष्टशब्दनिरूपणम्' इति पाठो ग्राह्यः । अत्र च पीयूषवदमृतशब्दस्याधररसावाचकत्वमन्ये मन्यन्त इत्युदाहरणान्तरमुदाह्रियते । यथा-'अलौकिकमहालोकप्रकाशितजगत्रय । स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ॥' अत्र मुक्तारत्नमित्यारोपपूर्वको वंश एव वंश इत्यारोप इति श्लिष्टशब्द १. 'प्रभवसंचय' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy