SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तिरोभूतमेदा रूपकमिष्यते' इति । आरोपादभेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालंकारविभागः । इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् । आयं केवलं मालारूपकं चेति द्विधा । द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव । तृतीयं श्लिष्टाश्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाच्चतुर्विधम् । तदेवमष्टौ रूपकभेदाः । अन्ये तु प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः। क्रमेण यथाकार्यरूपायाः श्रद्धाया आरोपः । ग्रन्थकृताप्यलंकारानुसारिण्यामत्र श्रद्धाहेतुत्वाच्छद्धेत्यभिधाया विशेषेणैकस्मिन्ननेकवस्त्वारोपान्मालारूपकमित्यभिदधतायमेव पक्षः कटाक्षितः । ननु चाध्यवसायगर्भाणामप्यलंकाराणामभेदप्राधान्ये सति प्रथममारोपगर्भा अलंकाराः किमिति लक्षिता इत्याशङ्कयाह-आरोपादित्यादि । चशब्दोऽन्यालंकारापेक्षया भेदसमुच्चयार्थः । विषयद्योतकस्तुशब्दः । अवयवेभ्यो निष्क्रान्त आरोप्यमाणो यत्र तत्तथोक्तम् । सहावयवैरारोप्यमाणो वर्तते यत्र तत्तथोक्तम् । परम्परयैकस्य माहात्म्यादपरस्यारूपणत्वमायातं यत्र तत्तथोक्तम् । आद्यमिति निरवयवम् । माला चैकस्यानेकस्य वानेकारोपाद्भवति । एवं परम्परितत्वेन मालारूपकं ज्ञेयम् । द्वितीयमिति सावयवम् । समस्तमारोप्यमाणात्मकं वस्त्वभिधाया विषयो यत्र तत्तथोक्तम् । एकदेश आरोपविषयाणामर्थात्तदात्मक एवारोप्यमाणप्रयोजनप्रतिपादनाय तद्रूपतया विवर्तते परिणमति यत्र तत्तथोक्तम् । तृतीयमिति परम्परितम् । यद्यपि श्लेषनिबन्धनेऽस्मिन्गुणक्रियात्मकधर्मनिबन्धनस्य सादृश्यस्यासंभव एव । तथापि शब्दमात्रकृतमेवाभेदाध्यवसायतः सादृश्यं ग्राह्यम् । अन्य इति एत नेदाष्टकव्यतिरिक्ताः । संभवन्तीति चिरंतनालंकारप्रन्थेष्वेव । न पुनर्लक्ष्यन्त इति भावः । तत्र हि तेषां तत्त्वेऽप्येतद्भेदाष्टककृतमेव वैचित्र्यं प्रतीयते । तथा च–पादः कूर्मोऽत्र यष्टिर्भुजगपतिरयं भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः । अर्चिश्चण्डांशुरुच्चैर्गगनमलिनिमा कजलं दह्यमाना वैरिश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपः ॥' इत्यत्र सत्यपि वाक्यार्थोक्तत्वे समस्तवस्तुविषयकृतमेव वैचित्र्यम् । क्रमेणेति यथोद्देशम् । द्विर्भावः स्मरकार्मुकस्येत्यत्र च वाक्यार्थपर्यालोचनयेन्दोः स्मरकार्मुकत्वारोपप्रतीतेः कुटिलत्वाद्यनेकधर्मनिमित्तं सादृश्यमेव संबन्धः । इन्दोश्चैकस्य बहव आ' रोपा इति मालारूपकम् । अनेकस्य तु यथा-'बाहू बालमृणालिके कुचतटी माणिक्यहर्म्य रतेर्मुक्ताशैलशिला नितम्बफलकं हासः सुधानिर्झरः । वाचः कोकिलकूजितानि चिकुराश्वेतोभुवश्चामरं तस्यास्त्रस्तकुरङ्गशावकदृशः किं किं न लोकोत्तरम् ॥' अत्रानेकेषामनेकारोपाद्रूपकमाला । इयं च श्लेषनिबन्धनापि दृश्यते । यथा-'नेत्रे पुष्करसोदरे मधुमती १. काश्मीरिकमहाकविजणप्रणीतसोमपालविलासकाव्यटीकायाम.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy