SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । ४१ ख्यीयपरिणामवैलक्षण्यम् । तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्वैविध्यम् । आयो यथा 'ती| भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय___ स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानस्त्वरितमथ गिरिं चित्रकूटं प्रतस्थे ॥ अत्र सौमित्रिमैत्री प्रकृता आरोप्यमाणसमानाधिकरणान्तररूपत्वेन परिणता । आतरस्य मैत्रीरूपतया प्रकृते उपयोगात् । तदत्र यथा समासोगित्वाभावादित्यारोप्यमाणस्योपयोग इति चान्वयव्यतिरेकाभ्यां प्रकृतोपयोगित्वस्यासाधारणत्वं दर्शितम् । असाधारणत्वस्य हि धर्मस्य तत्त्वव्यवस्थापकत्वाल्लक्षणत्वम् । अतश्च नास्त्येवालंकारान्तरेषु प्रकृतोपयोगित्वम् । एवम् –'आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि स ण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥' इत्यत्रोपमायाम् । 'अत्रान्तरे सरस्वत्यवतरणवाामिव कथयितुमवततार मध्यमं लोकमंशुमाली' इत्यादावुत्प्रेक्षायाम् 'मन्दरमेहक्खोहिअससिकलहंसपरिअ(मु)कसलिलोच्छङ्गम् । मरगअसेवालोवरिणिसण्णतुहिकमीणचक्काअजुअम् ॥' इत्यत्र च रूपके तथान्यालंकारेष्वौचित्यमेव नोपयोगः । औचित्यं हि सिद्धस्य सतः प्रकृतार्थोपलम्भकं भवति । उपयोगः पुनः सिद्धावेव प्रकृतार्थहेतुतां भजते इत्यनयोर्महान्भेदः । तथा हि—'अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् । अस्मिस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥' इत्यत्रैकस्यैव शब्दैक्यस्यौचित्योपयोगाभ्यां भेद उक्तः । अतश्चौचित्योपयोगयोर्भेदमजानद्भिः सर्वत्रैव प्रकृतोपयोगित्वमन्यैर्यदुक्तं तदयुक्तम् । तस्माद्रूपकादन्य एव परिणामः । इह पुनः प्रकृतार्थस्याप्रकृतार्थारोपमन्तरेण सिद्धिरेव न भवतीति प्रकृतोपयोगितैव जीवितम् । 'दाहोऽम्भः प्रतिपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेजितदीप्रदीपलतिकाः पाण्डिम्नि मनं वपुः । किं वान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिवर्तते ॥' अत्र हि च्छत्रारोपमन्तरेण चन्द्रातपरोध एव न भवतीति तस्य प्रकृतोपयोगित्वम् । अतश्च प्रकृतमप्रकृततया परिणमतीति परिणामः । यद्येवं तर्हि सांख्यीयपरिणामादस्य को विशेष इत्याशङ्कयाह-आरोपे(गमे)त्यादि । 'जहद्धर्मान्तरं पूर्वमुपादत्ते यदा ह्ययम् । तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यते ॥' इति सांख्यीयपरिणामलक्षणम् । मैत्रीरूपतयेति । मैत्र्यात्मतयेत्यर्थः । उपयोगादिति । आतरमन्तरेण १. 'मन्दरमेघक्षोभितशशिकलहंसपरिमुक्तसलिलोत्सङ्गम् । मरकतशेवालोपरिनिषण्णतूष्णीकमीनचक्रवाकयुगम् ॥' इति च्छाया. २. 'प्रकृतोपयोगित्वे च क. ३. 'ततश्च' ख. ४. 'परिणामः कस्मान्न भवतीत्याशङ्कयाह-आगमेत्यादि । यद्येवं तर्हि सांख्यीयपरिणामलक्षणम्' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy